________________
परि. ५ सू. ८ ] स्याद्वादलाकरसहितः
८०३ अनभिलाप्यतैकान्तशब्देनानभिलाप्यतैकान्तस्याभिधानात् । अनभिलाप्यतैकान्तस्याप्यनभिलाप्यत्वे कुतः परप्रतिपादनम् । तद्वचनाच्चेत् कथमनभिलाप्यतैकान्तः कान्तः स्यात् । परमार्थतो न कश्चिद् वचनात्प्रतिपाद्यते चेत्, स्वयमवाच्यताप्रतिपत्तिः कथम् । वस्तुनि वाच्यतानुपलब्धेश्चेत् । सा यदि दृश्यानुपलब्धिस्तदा सिद्धा क्वचिद्वा- ५ च्यता । क्वचित्सिद्धसत्ताकस्यैव कुम्भादेद्देश्यानुपलब्धिवशादभावप्रतीतेः। विकल्पप्रतिभासिव्यपोहे प्रतिपनाया एव वाच्यतायाः स्वलक्षणे प्रतिषेधाददोष इति चेत् । मैवम् । वस्तुवाच्यतायाः प्रतिषेधायोगात् । तदन्यापोहमानवाच्यताया. एव प्रतिषेधात् । न चान्यापोहवाच्यतैव वस्तुवाच्यतां । तत्प्रतिषेधविरोधात् । अथेयमदृश्यानुपलब्धिर्न तर्हि १० वस्तुनि वाच्यत्वाभावनिश्चयः । अतिप्रसक्तेः । निरस्तश्चायमवाच्यतैकान्तः प्रपञ्चेनापोहव्ययोहप्रस्ताव प्रागेवेति पर्याप्तमिहातिविस्तरेण । स्याद्वादाभ्युपगमे तु न कश्चिदोषः कथंचिद् वाच्यत्वावाच्यत्वयोर्यथोक्तनीत्या वस्तुनि प्रतीयमानत्वादिति ।
अभिलाप्यानभिलाप्यं प्रमाणपर्यशायि विश्वमिदम् । १५ तस्मादङ्गीकार्यं नत्वेकान्तव्यसनदुःस्थम् ॥ ६०३ ॥
_ इत्थं कार्यकारणयोर्भेदाभेदैकान्तोऽपि कुतीर्थिककार्यकारणभेदाभेदैकान्तपMUSHकल्पनाशिल्पिप्रतिलब्धमूर्तिर्न प्रमाणवीथीमा
स्कन्दति । न खलु कापिलपरिकल्पितः कार्यकारणयोरभेदैकान्तः स्वमेऽपि प्रतीयते । संज्ञासंख्यास्वलक्षणादिभेदत- २० स्तन्त्वादिकारणपटादिकार्ययोर्भेदस्याप्यनुभूयमानस्य निन्हीतुमशक्यत्वात् । विस्तरतश्चायं तन्मतमथनप्रस्तावेऽपहस्तयिष्यते । नापि वैशेषिकादिसंमतस्तयो दैकान्तः कदाचनाप्यनुभवभुवमवगाहते। परस्परमशक्यविवेचनत्वलक्षणस्याभेदस्यापि प्रतीयमानत्वात् । अथोच्यते । कार्यकारणे अत्यन्तभिन्ने, अतिभिन्न प्रतिभासत्वात् । य इत्थं त इत्थम् । २५ यथा पावकरयसी । तथा च कार्यकारणे तस्मादत्यन्तभिन्न इति । न
"Aho Shrut Gyanam"