________________
८०२
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ सू. ८ यस्तु शब्दाद्वैतवादी शब्दार्थयोस्तादात्म्यमभिसंधायाभिलाप्यतैकान्तं प्रतिजानीते । नायमवधानाईः परीक्षकाणाम् । तथाहि-शब्दार्थयोस्तादात्म्यमिति कोऽर्थः । यदि तदात्मनो वस्तादात्म्यं तर्हि द्वायपीष्टावेव । पृथग्भावाभिधानान्नानयोरैक्यमेवेति । एवं च न शब्दब्रह्म५ विवर्तमानं जगदिति कथमभिलाप्यतैकान्तः संभाव्येतापि । अथ तदात्मनो भावस्तादात्म्यमिति । तदसुन्दरम् । शब्दार्थयोस्तादात्म्यमित्यत्र द्वयोरपि प्रधानत्वे तदात्मनो भाव इत्येकतरप्राधान्येन संगत्यसंभवात् । अस्तु वासौ तथापि कस्यायमात्मा यदात्मनो भाव इति । यदि शब्दम्य तर्हि तद्व्यतिरेकेणार्थाभावान्निखिलस्य जगतः शब्दमात्रत्वाच्छब्दार्थयोस्तादात्म्यमिति न न्यायानुकूलं स्यात् । न खलु देवदत्तवन्ध्यास्तनन्धययोस्तादात्म्यमिति प्रतिपादयन्ति विद्वांसः। अथार्थस्यायमात्मा तदाप्यर्थव्यतिरेकेण शब्दाभावादखिलस्यापि विश्वस्यार्थमात्रत्वाच्छब्दार्थयोस्तादात्म्यमित्यसंगतमेव स्यात् । किं च,
अत्र पक्षे लाभामिच्छतो मूलोच्छेदस्तवायातः । अर्थमात्रात्मकत्व१५ सिद्धया विश्वस्य शब्दमात्रात्मकत्वासिद्धेः । विस्तरतश्च शब्दब्रह्म
वादः प्रागेव प्रतिहत इत्यलमिह तद्दषणप्रबन्धेनेति । योऽप्यनभिलाप्यतैकान्तं ताथागतः समातिष्ठते सोऽपि न पटिष्ठः । यदि हि एकान्तेनानभिलाप्यं वस्तु प्रतिज्ञायते कथं तर्हि तथाविधशब्दार्थप्रतीत्यादिकमुपपोत । दृश्यते च चैयावृत्यकरशिरोमणे पनचन्द्रगणे बालवृद्धविद्वलोकसमाकुलातुच्छस्वच्छगच्छोपष्टम्भार्थमन्नपानादिकमा. नयानयेत्याचार्यवचनश्रवणसमयसमनन्तरं तथाविधार्थावगमपुरःसरा तस्य महात्मनोऽन्नपानाद्यानयने स्वलनविकला प्रवृत्तिः, तत्समासादनं, समासादिते चाचार्याणां पुरस्तथा निवेदनमिति कथं नाभिलाप्यत्वसिद्धिः । अपि चानभिलाप्यतैकान्ते स्ववचनविरोधापत्तिः ।
१ रामेति व्यक्षरं नाम मानभङ्गः पिनाकिनः ।' इति वाक्यं शब्दार्थतादात्म्य एव संगच्छते। १ भक्तादिभिर्धापग्रहकारिवस्तुभिरुपग्रहकरणं वैयाकृत्यम् ।
20
"Aho Shrut Gyanam"