________________
८०१
पंरि. ५ सु. ८ स्याद्वादरत्नाकरसाहेतः
तथाहि-पमस्तं वस्तु, अभिलाप्यात्मकम्, तथोपलम्भस्यान्यथानुपपत्तेः । न खल्वेकान्तेनाभिलाप्यस्वभावं वस्तु उपलम्भभाजनं भवितुमर्हति । अभिलाप्ययोगपर्यायैरेव स्थूलैः कालान्तरस्थायिभिर्व्यञ्जनपर्यायापराभिधानश्चेतनाचेतनस्य सकलवस्तुनोऽभिलाप्यत्वप्रतीतेर्न पुनरभिलापयोग्यपर्यायपि । नाप्येकान्तेनाभिलाप्यस्वरूपमनभिलापयो- ५ ग्यपर्यायैरेव सूक्ष्मैः प्रतिक्षणभाविनिरर्थपर्यायापरनामधेयः सर्वस्यानभिलाप्यत्वप्रतीतेन त्वमिलापयोग्यपर्यायैरपि । स्यादेतत् । यदि वस्तु, अमिलाप्यानभिलाप्यधर्मकं, एवं तरंभिलाप्यानां धर्माणां शब्देनाभिधीयमानत्वात् । किमित्यकृतसंकेतस्य श्रोतुः पुरोऽवस्थितेऽपि पनसादी वाच्ये शब्दात् न संप्रत्ययवृत्ती स्यातामिति । उच्यते । अकृ- १० तसंकेते वाच्ये ज्ञानावरणकर्मक्षयोपशमाभावात्तस्य च संकेताद्यभिव्यइयत्वात् । तथाहि-ज्ञस्वभावम्यात्मनो मिथ्यात्वादिजनितज्ञानावरणादिकर्मपटलाच्छादितस्वरूपस्य संकेततपश्चरणदानप्रतिपक्षभावनादिभिम्तदावरणकर्मक्षयोपशमः क्रियते ततो विवक्षिताकारं संवेदनं प्रवतते । अन्यथा तत्प्रवृत्त्यभावात् । नन्वभिलाप्यानभिलाप्यस्वभावमेकं १५ वस्तु विरोधशार्दूलकवलीकृतत्वान्न संभवत्येव । तथाहि-अभिलप्यते यत्तदभिलाप्यम् । तद्विपरीतं चानभिलाप्यमिति । ततश्च तत् वद्यभिलाप्यं न तर्हि अनभिलाप्यमनभिलाप्यं चेन्न तर्हि अभिलाप्यमिति । एकस्यानेकविरुद्धधर्माध्यासानुपपत्तेः । एतदसमीचीनम् । अभिलाप्यत्वानभिलाप्यत्वयोर्भिन्नानिमित्तत्वेनैकत्र वस्तुनि विरोधासिद्धेः। २० ययोभिन्ननिमित्तत्वं न तयोरेकत्र वस्तुनि विरोधो यथा -हस्वत्वदीर्घत्वयोः । भिन्ननिमित्तत्वं चैकत्र वस्तुनि, अभिलाप्यत्वानभिलाप्यत्वयोरिति । न चानयोभिन्ननिमित्तत्वमसिद्धम् । व्यञ्जनपर्यायापेक्षयाऽभिलाप्यत्वस्या थपर्यायापेक्षया त्वनभिलाप्यत्वस्य व्यवस्थापितत्वात् । विरो धनिरासस्तु प्रपञ्चतः सामान्यविशेषानेकान्तवादिवदिहाप्यनुसतव्यः ।२५
"Aho Shrut Gyanam"