________________
८००
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ सू. ८ भट्टचट्ट समुत्तिष्ठ ब्रज सम सखे यतः ।
आशास्ते निष्फलीभूताः सर्वाः स्याद्वादपणे ॥ ५९९ ॥ यदप्यपरैरत्र प्रेयते--' पर्यायनिवृत्तौ द्रव्यस्य निवृत्तिर्भवति न वा। यदि भवति, अनित्यमेव तत् । निवृत्तिमत्त्वात् पर्यायस्वात्मवत् । ५ अथ न भवति तर्हि द्रव्यपर्याययोर्भेदप्रसंगः । तथाहि पर्यायेभ्योऽन्यद्रव्यं तन्निवृत्तावपि तम्यानिवृत्तेस्तुरङ्गादिव कुरङ्ग इति । तदपि प्रत्यादिष्टं भवति, उपन्यस्तनीत्या द्रव्यपर्याययोः । कथंचिद्भेदाभेदसिद्धौ सत्यां पर्यायनिवर्तने कथंचिद् द्रव्यनिवर्तनस्य स्याद्वादिनाम
भीप्सितत्वात् । विजम्भितं चात्र श्रीमदनेकान्तजयपताकायां पूज्यैः १० श्रीहरिभद्रसूरिभिरित्यलमिह द्राधीयस्या चर्चया । एवं नित्यानित्या
त्मके वस्तुनि व्यवस्थापित उत्पादव्ययध्रौव्यात्मकत्वं वस्तुनः सत्त्वमिति परमार्थतः प्रतिष्ठितं भवति । उत्पादव्ययध्रौव्ययुक्तं सत्' इति भगवदुमास्वातिवाचकवचनात् । तथाहि-सर्वं वस्तु द्रव्यात्मना
..... .... .... .... ... .... .... .... .... १५ .... त्यानुपपत्तेरुत्पादव्ययधौव्ययुक्तत्वेनैवास्य सत्त्वं प्रतिपत्तव्यम् । न
चोत्पादादयः प्रत्येकं वस्तुरूपा येन तेषामप्यपरोत्पादादियोगतः सत्त्वेन भवितव्यमित्यनवस्था स्यात् । तेषां वस्त्वेकदेशत्वेन व्यवस्थितत्वात् ।
तेनोत्पादव्ययध्रौव्ययुक्तं सदिति भारती । ददाति विद्वलोकाय नूनं जगति भारती ।। ६०० ॥ नित्यानित्यात्मकं सर्वव्यवहारप्रसाधकम् । एवं च सिद्धिमानीतं समस्तं वस्तु मानतः ॥ ६०१ ।।
__अमिलाप्यानमिलाप्यानेकान्तः सिद्धिमेति अभिलाप्यानभिलाप्येकान्तस्य मण्डनम् ।
यन्मानात् । सर्वत्र वस्तुजाते तत् संप्रति दयते सतः
१ अ. ज. पताकायां चतुथाधिकारे । २ तत्त्वा. सू.५.२९.
"Aho Shrut Gyanam"