________________
परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः पर्यायरूपतया परिणतस्य तस्यानुपलक्षणमिष्टं, तत्र चासिद्धता । तथा परिणतस्य तस्योपलव्धेः प्रतिपादितत्वात् । यदप्यभिधीयते-कार्यभेदस्त्वस्मान् प्रत्यासिद्ध एव । रूपादीनामेव केषांचित् तत्कार्यकर्तृत्वात् ' इति । तदप्यसत् । यदि हि रूपादय एव द्रव्यनिर्वयं कार्यं कुर्युस्तदा व्यस्तदशावर्तितन्तुम्तोमतोऽपि शीतापनोदः किं न ५ स्यात् । तजनकरूपादीनां तदानीमपि विद्यमानत्वात् । तथा च दृष्ट. बाधा, कार्यकारणभावविलोपप्रसंगश्च । तन्मात्रस्य सर्वत्राप्यविशेषण सर्वस्य सर्वकार्यतापत्तेः । अथ विशिष्टास्ते तत्तत्कार्यकारिणस्ततो न दृष्टबाधा, नापि कार्यकारणभावधिलोप इति चेत् । किमिदं तेषां वैशिष्टयं द्रव्यांशादन्यत् प्रसाधयिष्यते च तेभ्यः कथंचिदन्यद्रव्यमिति । १० यत्तच्यते–' कार्य हि द्विविधं भिन्नकालमभिन्नकालं च । तत्र पूर्व भवति भेदनिबन्धनं यदीह संभवेत् । तत्तु न संभवति धर्मधर्मिगोस्तुल्यकालत्वात् । अभिन्नकालस्तु कार्यभेदोऽनैकान्तिको विभक्तपरिणामेषु पटादिषु संभवात पटादयोऽपि हि विभक्तपरिणामा अनेककार्य कुर्वन्तो दृष्टा न च धर्मिरूपेण भियन्ते ' १५ इति । तत्रोच्यते । अभिन्नकालः कार्यभेदो भेदकस्तावत् इह कक्षीक्रियते । तस्य त्वनैकान्तिकत्वकीर्तनमकीर्तिकरम् । धर्मिरूपतया पटा. दीनामभेदेऽपि हि विचित्रकार्यजननशक्त्याख्यधर्मिरूपतया भेदोऽपि विद्यत एव न खलु कार्यभेदाढ़ेद एवेति ब्रूमः । किंतु यत्र कार्यभेदस्तत्र तावद्भेदो भवत्येवेति । स च पटादिषु स्पष्ट एवेति नानेकान्तः। २० यत्पुनः प्रणिगद्यते-'एकस्यानेकक्रियाविरोधाच्च' इत्यादि । तत्क्षणभङ्ग एव प्रतिहतम् । एवं च 'द्रव्यपर्यायरूपत्वात द्वैरूप्यं वस्तुनः किल । तयोरेकात्मकत्वेऽपि भेदः संज्ञादिभेदतः' इत्याशङ्क्य
' इन्द्रियज्ञाननिर्भासि वस्तुरूपं हि गोचरः ।
शब्दानां नैव तत्वेन संज्ञाभेदाद्विभिन्नता ।' इत्यादि यत्कारिकाजालमजल्पि तदखिलं क्षिप्तं लक्षणीयम् । एवं च
"Aho Shrut Gyanam"