________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ स. ८ विवक्षयैकवचनं प्रयुज्यमानं कथं विरोधमध्यासीत् । किं च । यदि संख्याभेदो न भेदकस्तदैकत्रापि कुटे कुटकोटेः कुटकोटावप्येककुटस्य प्रतीतिः किं न स्यादिति प्रतिनियतव्यवहारविरामः प्रसज्येत । यापि दारा इत्यादिकतिपयशब्दकदम्बके बहुत्वसंख्या सापि शब्दशक्तिमाहात्म्यात् सदैव गुणानां प्राधान्यविविक्षया तच्छब्दानां प्रवृत्तेरविरुद्धैव । यत्तूच्यते 'संज्ञापि संकेतनिबन्धना स चेच्छायत्त. वृत्तिरिति कुतस्ततोऽर्थभेदः । एकस्मिन्नपि च संज्ञाभेददृष्टेः कथभस्य भेदनिमित्तता । यथेन्द्रः शक्रः पुरन्दर ' इति । तत्रेच्छा
यत्तवृत्तिः संकेत इति कुहेवाकमात्रम् ! संकेतस्य वस्तुनिष्ठतया १० प्रतिपादितत्वात् । इन्द्रशकादिसंज्ञाभेदोऽपि सर्वथैकस्वरूपे सुरपतौ
नास्माकं सिद्धो यतोऽनैकान्तिकः स्यात् । इन्दनशकनादिशक्तिकदम्बकात्मको हि शक्रस्तत्तच्छक्तिप्राधान्यविवक्षया तैम्तैर्वाचकैरुच्यते । डित्थडवित्थादिशब्दा अपि ततच्छब्दवाच्यतारूपां कांचिदभिधेयगतां
शकिमपेक्ष्य प्रयुज्यन्ते । ततश्च यदुच्यते 'येषां च पर्यायाणां न कदाचि१५ दर्थानुगममात्रा तत्र किं वक्तव्यम्' इति तदज्ञतामेवास्य सूचयतीति ।
यदपि प्रतिपाद्यते-लक्षगभेदोऽप्यहेतुरासद्धत्वात् । न ह्येको भावः क्वचिदप्यन्वयी सिद्धः' इत्यादि । तदपि नोपपन्नन् । यतोऽन्वयित्वं सहक्रमभावि तत्तत्पर्यायानुगामित्वमुच्यते । तच्च कथंचि कस्या एव
मृदो रूपादिगुणेषु स्थासकोशकुशूलकपालकलशादिपर्यायेषु चानुगतायाः २० समीक्षणात् सुप्रसिद्धम् । यत्युनरुच्यते 'पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धेस्तस्योपलब्धिलक्षणप्राप्तस्य तद्विवेकानुपलक्षणात् पर्यायेषु च तुल्यरूपकायकर्तृषु द्रव्याभिमानो मन्दमतीनां न पुनस्ततो विलक्षणमुपलभ्यते' इति । तदस्य स्वमतानुरागान्धितदृशो यथावह
स्तुदर्शनासमर्थस्य व्याहृतम् । अत्र हि यथा घटविवेकेन पटस्योपलका क्षणं तथा पर्यायविवेकन द्रव्यस्योपलक्षणं नास्तीति नास्ति पर्यायेभ्यो विविक्तं द्रव्यमिति ने तावत्तवाभिप्रेतं तथास्माभिरप्यभ्युपगमात् । किंतु
१ इदं नेतिपदं तथास्माभिरिति वाक्ये संबन्धनीयम् ।
"Aho Shrut Gyanam"