________________
परि. ५ स. ८ ]
स्याद्वादरत्नाकरसहितः
७९७
या द्रव्यवर्जिताः । क कदा केन किंरूपा दृष्टा मानेन केन वा ॥' इति । तथा च तयोरभेदसिद्धौ तावत् प्रयोगः । विवक्षितद्रव्यपर्यायौ एक वस्तु, अशक्यविवेचनत्वान्यथानुपपत्तेः । पर्यायादवास्तवात् पृथग्भूतमेव द्रव्यं वास्तवमेकेषाम् । द्रव्यादवास्तवात् पृथाभूत एव पर्यायो वास्तवः परेषाम् । ततोऽसिद्धमशक्यविवेचनत्वमिति न मन्तव्यम् ! तदन्यतराभावेऽर्थे क्रियाया अनुपपत्तेः । न हि द्रव्यं केवलपरस्परविविक्तस्वरूपलक्षणत्वमपि द्रव्यपर्याययोर्भेदं साधयति । परस्परविविक्तस्वरूपलक्षणत्वं च स्याद् भेदश्च न स्याद् विरोधाभावात् । ततः संदिग्धविपक्षव्यावृत्तिको हेतुरत्रेति नाशङ्कनीयन् । परस्परविविक्तस्वरूपलक्षणत्वेनापि भेदानभ्युपगमे नानात्वं दुर्घटं जगतः स्यादिति विपक्षे १० बाधकप्रमाणसद्भावात् । निश्चितव्यतिरेकत्वात्साधनस्य । अत्र भट्टचट्टः समाचष्टे-'यदि हि स्वभावतो न भेदो धर्मधर्मिगोः संख्यादिभेदादपि नैव भेदः । न हि पररूपाभिधमाना अपि संख्यादय आत्मभूतभेदं बाधितु समर्थः' इति । तत्रायं तावत् न सम्यक् परमतं वेत्ति तद्दषणाय प्रगल्भते चेति चित्रीयते नश्वेतः। न खलु नैयायिकैरिवा- १५ स्माभिः संख्यादय एकान्ते धर्मिणो भिन्ना अभ्युपेयन्ते । यतः पररूपा इत्याद्यभिधीयमानं शोभा बिभूयात् । किंतु कथंचिदभिन्ना अपि । कथंचिदभिन्नाश्च ते धर्मिणस्ते यदा परस्परं भियन्ते तदा धर्मिणमपि कथंचिद् भिन्दन्त्येव । अन्यथा तेषामपि भेदो न भवेत् । यदप्ययमेव प्राह- संख्याभेदस्तावदसमर्थ एकस्मिन्नपि द्रव्ये बहुत्वेन २० व्यवहारदर्शनात् । यथा गुरव' इति । तदप्यपर्वालोचितवचः । अनन्यसाधारणरूपज्ञानादिगुणानां प्राधान्यविवक्षया तत्र बहुत्वस्योपयत्तेः । यत्त्ववाह-' रूपादिनिमित्तत्वे हि गुरुरिति न कदाचिदेकवचनं स्यात् ' इति तदपि परिफल्गु । न खलु सर्वत्र गुणानां प्राधान्यविवक्षयैव शब्दाः प्रयुज्यन्ते । धर्मिप्राधान्यविवक्ष- २५ यापि तेषां प्रयुज्यमानत्वात् । ततो गुरुरित्यत्र धर्मिप्राधान्य
"Aho Shrut Gyanam"