________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ५ सु. ८
धर्मो न स्यात् । तत् सिद्धं बीजं कथंचिदनेकमेककालम् । तद्वदनेककालमपि । मा भूद्वा जनयद्रूपाजनयद्रूपयोर्विरुद्धत्वम् । तथापि नानयोस्ताव देवेनापि भेदोऽपोतुं पार्थते । सति चास्मिंस्तदात्मनो धर्मणोऽपि कथं न भेदो भवेत् । अन्यथा धर्माणां तद्धर्मितादात्म्यमपि न ५ स्यात् । एवं च भेदस्य भवदभिमतस्य विरुद्धधर्माध्यासेन व्यास्यसिद्धेरनैकान्तिकोऽयं व्यापकानुपलम्भः । दृष्टान्तोऽपि परमाणुरूपः साध्यसाधनविकलः प्रतिसंबन्धिपरमाणुसंबन्धनिबन्धनभिन्नस्वभावेभ्यः कथंचिदयाभिन्नत्वेन कथंचिद् भिन्नत्वात् । धर्माणां च कथंचिद् विरोधस्यामिहितत्वात् ।
यौगपुङ्गव तवैष सर्वथा स्थैर्यसाधनमनोरथद्रुमः ।
७९६
१०
दोषदुष्पवनपीडितस्ततः सत्यमापदफलत्व लाञ्छनम् ॥ ५९८ ॥ तदेवमेकान्तेनानित्यत्वं नित्यत्वं च न कस्यचित्प्रमाणस्य गोचरः नित्यानित्यत्वं तु वस्तुनो द्रव्यपर्यायोभयरूपत्वेनानुवृत्तव्यावृत्ताकार संवेदनग्राह्यत्वात् प्रत्यक्षसिद्धमेव । तथाहि - मृत्पिण्डशिवकस्थास कोशकुशूल१५ कलशकपालादिभेदेवविशेषेण सर्वत्र मृदन्वयः संवेद्यते प्रतिभेदं च व्यावृत्तिः । तथा च न यथाप्रतिभासं मृत्पिण्डादिषु संवेदनं तथाप्रतिभासमेव शिवकादिष्वाकारभेदानुभवात् । न च यथाप्रतिभासभेदं तद्विजातीयेषु पयः पावकपवनादिषु तथाप्रतिभासभेदमेव शिवकादिषु मृदन्वयानुभवात् । न चास्यानुभूयमानस्यापि संवेदनस्यापलापः कर्तुं पार्यते । २० सर्वापलापप्रसंगात् । न चास्य संवेदनस्य बाधकः प्रत्ययोऽस्ति । तस्य कदाचिदप्यनुपलब्धेः । तस्मादन्ययाविनाभूतो व्यतिरेको व्यतिरेकाविनाभूतश्चान्वय इति वस्तुस्वभावः । एवं च यत एव नित्यमत एवानित्यत्वं द्रव्यात्मना नित्यत्वात् तस्य चाभ्यन्तरीकृतपर्यायत्वात् । यत एवानित्यमत एवं नित्यं पर्यायात्मनाऽनित्यत्वात् तस्य चाभ्यन्तरी२५ कृतद्रव्यत्वात् । उभयरूपस्य चानुभवसिद्धत्वात् । एकान्तेनाभिन्नस्य भिन्नस्य चोभयस्याभावात् । तथा चोक्तम्- ' द्रव्यं पर्यायवियुतं पर्या
-
"Aho Shrut Gyanam"
-
१ एतदर्थिका गाथा संमतितर्क करणे प्रथमकाण्डे दृश्यते-' व् पज्जवविज्जुभं दव्वविउत्ता य पज्जवा नत्थि ' । इति ।