________________
७९५
परि. ५ सं. ८] स्याद्वादरत्नाकरसहितः पजनः स्यादेव । इति कथंचित्पुनस्तस्य तदुत्पत्तिनिश्चयविषयीभूतबीजजातीयत्वे तदुत्पत्तिनिश्चयेत्यादिहेतुविशेषणस्य वैयर्थ्यम् । यत एतद्विशेषणोपादानेऽपि कथंचित् तज्जातीयत्वविवक्षायां बीजत्वमात्रेणैव सजातीयत्वमीप्सितमायुष्मतः । तच्च बीजजातीयत्वादित्येतावतैव कृतार्थ किमर्थं तद्विशेषणोपन्यासः । यद्प्यवादि 'विवादाध्यासितो ५ भावः ' इत्यादि । तत्र कथंचिद्भेदाभावे साध्ये सिद्धसाध्यता । कालभेदेऽपि तस्याभिन्नत्वेनास्माभिरपि स्वीकारात् । द्रव्यरूपतया तस्यैव भावस्यावस्थानात् । सर्वथा भेदाभावे तु साध्येऽनुमानबाधः । तथाहि-विवादाध्यासितो भावः कालभेदे कथंचिद् भिद्यते । स्वात्मभूतधर्मनिवृत्त्युत्पत्तिमत्त्वान्यथानुपपत्तेः । यदेव हि कुशूलमूलावलम्बिबीजं १० स्वात्मभूताजनयद्रूपधर्मधाम समासीत् तदेवेदानी क्षितिजलानलादिसामग्रीसंपर्कात् तथाविधतद्धर्मोपमर्दैन स्वात्मभूतां जनयद्रुपतामाकलयति । न च धर्मस्य भावात्मभूतत्वमसिद्धमभिधानीयम् । अस्य प्रसाधयिष्यमाणत्वात्। विरुद्धधर्मासंसृष्टत्वलक्षणहेतुरपि कथंचिच्चेदुच्यते तदा विरुद्धतामधिरोहति । तथाहि-सर्वथा भावस्याभेदप्रसिध्द्यर्थमयमुपाददे । अथवा- १५ ऽस्मात् सर्वथा भेदविरुद्धः कथंचिद्धेद एव प्रसिध्यतीति । सर्वथायक्षे त्वसिद्धः। विवादास्पदीभूतभावे जनयद्रूपाजनयद्रूपयोरेव विरुद्धयोधर्मयोः सद्भावात् । अथ न नः प्रयोगाप्रयोगमात्रेण विरोधः । अन्यथा बीजस्याकुररासमजनकत्वाजनकत्वापेक्षया भेदः स्यात् किंतु प्रकारभेदेन । यदा हि यजननं तदा तदजननं विरुद्धं न पुनरन्यदेति कथं कालभेदेन २० जनयद्रूपाजनयद्रूपवोर्विरुद्धत्वं भवेदिति चेत् । तदप्यचतुरस्रम् । अङ्कुरजनकत्वरासभाजनकत्वाभ्यां बीजस्य भिन्नत्वेनाभ्युपगमात् । ननु रासभापेक्षाजनकत्ववदनन्तपदार्थापेक्षाजनकत्वानामनन्तानां धर्माणां संभवेन तदात्मकबीजस्यापि तावद्वा भेदात् किमिदानी बीजमस्तु । तयुक्तम् । तत्तदनन्तधर्माविष्वग्भावपरिणतपदार्थविशेषस्यैव बीजत्वात् २५ न खल्वमी धर्माः सर्वथैव व्यतिरिक्ततनवो यतस्तदात्मा बीनाख्यो
"Aho Shrut Gyanam"