________________
प्रमाणनयतत्त्वालोकालङ्कारः
[परि. ५ सू.८
बीजस्यैवं स्थिरत्वोपपादनेन कृतार्थः । किंच । यदि पौर्वकालिकाः क्षित्यादयो नाङ्कुरकरणे सहकारिणस्तर्हि किमिति कृषीबलस्तान् बीजस्य संनिधापयति । क्रमेण तस्यातिशयपरम्परोपजननायेति चेत् । तार्ह सिद्धं कथंचिदस्थिरत्वं बीजस्य । अतिशयपरम्परायाः कथंचित्ततोऽव्यतिरिक्तत्वात् । अपि चैवं शिलाशकलस्वरूपव्यतिरेकोदाहरणस्य कथं न साध्यव्यावृत्तता । यदि हि तत्र सहकारिसाकल्ये सत्यपि स्वरूपसामर्थ्याभावमात्राप्रयुक्त कार्यवैकल्यमुपदर्शितं स्यात्तदा स्यात्तस्मात् साध्यव्यावृत्तिः । यावता त्वदभिप्रायेण तत्र न सहकारिसाकल्य कदाचिदस्ति । यत्संनिधानादनन्तरमेव कार्यमुपजायते तस्यैव सहकारितया त्वया प्रतिपादितत्वात् । शिलाशकलादेश्च क्षित्यादिसनिधानेऽपि कदाचिदङ्कुरानुत्पत्तेः । अथ सन्तु सहकारिणस्ते किंतु न शकलाः संपर्किणस्तदानीमभूवन्निति । तत्साकल्यासिध्या न सहकारिमध्यमध्यासीनेन बीजेन कंचित्कालमङ्कुरमकुर्वता व्यभिचार
इति चेत् । ननु किं नाम न संनिहितं तत्र क्षेत्रजलादेः सकलस्य १५ मिलितस्य दर्शनात् । अथ न मिलितमद्यापि प्राणिनामदृष्टमिति
चेत् । नैवम् । यत्र हि अदृष्टस्य दृष्टकारणोपहारेणोपयोगस्तत्र तेषां पूर्णतायां कार्यमुपजायते एव । अन्यथा त्वन्मतेऽन्त्यतन्तुसंयोगेऽपि कदाचित्पटो न जायेत । जातोऽपि वा कदाचिन्निर्गुणः स्यात् । बलवता कुलालेन दृढनुन्नमपि चक्र कदाचिन्न भ्राम्येत् तथाविधादृष्टवैगुण्यादित्यपि स्यात् । यत्र तु दृष्टकारणानुपहारेणैवादृष्टस्य व्यापारस्तत्र तद्वैगुण्यात्कार्यस्यानुदयो यथा त्वन्मत एव परमाणुकर्मणा । तदिहापि यदि जलादीनि दृष्टकारणानि सकलानि मिलितानि किमदृष्टं न मिलितं नाम । तत्प्रयुक्तत्वातन्मेलकस्य । अतः कथं साक
ल्यमसिद्धं तत्र | अस्माकं तु सहकारिसाकल्ये सत्यपि तदानी २५ पर्यायस्वरूपसामर्थ्यस्याभावान्नाङ्कुरोत्पादः । उपढौकिते तु तत्सा
कल्येन तस्मिन्नुच्छ्नोच्छूनतरोच्छूनतमादिक्रमेणावश्यमन्त्यक्षणे कार्यो
"Aho Shrut Gyanam"