________________
परि. ५सू. ८ ]
स्याद्वादरत्नाकरसहितः
भावस्तत्कार्यं करोति न करोति चेत् किमसमञ्जसं समञ्जसमपि किंचित् । दृष्टान्तेऽप्येकस्वभावत्वानुपपत्तेः । न खलु सर्वथा स्वभावभेदमन्तरेण दहनो दहति न दहति चेत्युपपद्यते यतो दाष्टन्तिकसिद्धिः स्यात् । इत्येवं नास्यानेककार्यकारिणो यावत्सत्त्वमेकस्वभावत्वं सत्यतामनुभवति । तदभावे च नैकान्तस्थिरतापि । एवं च प्रतीयमानमतिश ५. यमकुर्वन्तोऽपि सहकारिणः स्वीकृत : । न च सर्वथा स्थिरत्वं साधयितुं शक्तिमिति ' कृतः शीलविध्वंसों न चानङ्गः शमं गतः ' इति न्यायभाजनतां गतोऽसि । तस्माद् वरं प्रतीयमानातिशयाधायकत्वेनैव सहकारित्वं स्वीकृतम् । तत्र च सिद्धसाध्यत्वमुक्तमेव । तावपि -विवादाध्यासितबीजस्य तदुत्पत्तिनिश्चयविषयीभूतबजिन सजातीयत्वं १० सर्वथाभिप्रेतं कथंचिद्वा । प्रथमकल्पनायां प्रतिवाद्यसिद्धिः । जनयद्रूपाजनयद्रूपविसदृशपरिणामपरिणतयोः सर्वथा सदृशपरिणामानुपपत्त्या सर्वथा सजातीयत्वेन जैनैरनभ्युपगमात् । आस्तां वा सर्वथा सजातीयत्वं तस्य । तथापि सहकारिमध्यमध्यासीनेन बीजेन किंचित्कालमकुरमकुर्वता व्यभिचारी हेतुः । सत्यपि तत्र तज्जातीयत्वेऽङ्कुरादिकार्य. १५ वैकल्यप्रयुक्तत्वासंभवात् । सहकारिसाकल्यस्यैव तदानीं सद्भावात् । अथ यत्संनिधानादनन्तरमेव कार्यमुपजायते त एव सहकारिणो न पूर्वकालभाविनोऽपीति चेत् । नन्वेवं वदन्तः सौगता एव शोभन्ते येषां पूर्वापरकालयोस्तेषां भेदः । भवतां तु य एवाद्यक्षणे संनिधिभाजो बभूवुस्त एवाङ्कुरोपजनसमयेऽपीत्युभयदशायां सहकारितास्तु २० यद्वा मा भूत् । कदाचिदपि संनिधानादेर्विशेषस्योभयदशायामप्यन्यूनातिरिक्तत्वात् । अथ पूर्वकालभाविनस्तेऽन्ये चोत्तरकालिकास्तर्हि - बीजमपि तदन्यत् चौत्तरकालिकमिति किं न स्यात् । अथेष्यत एव तेजः संपर्कात् प्रनष्टं तद् बीजमन्यदेव पाकजरूप्रादिपरिगतपरमाणुभिरारब्धमङ्करोत्पादकमिति चेत् । उत्तिष्ठ तर्हि व्रज सभ जातोऽसि २५:
१ लौकिकन्यायः । अनङ्गः कामः
"Aho Shrut Gyanam"
७९३