________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ सू. ८. तत्सहकारिणोऽप्यवश्यमाकर्षणीयत्वेन सदैव सत्त्वात् किमिति सदैव तन्नोत्पादयेत् । अनुत्पादयन्वा कथं तत्स्वभाव इति । ततश्च यदैवास्य तत्कार्थमुन्मज्जति तदैवानेन साधमेव तजननस्वभावो न पुन
रन्यदेति सन्यायरणस्तम्भः । एवं च स्वभावभेदे कथं स्थिरता स्यात्। ५ अथोच्यते स्थिरभावस्य स्वभावभेद इति कथापि प्रायश्चित्ताय । तस्य
तथा चित्रसहकारियोगादनेककार्थसाधकत्वेन यावज्जीवमेकस्वभावत्वात् । तथाहि-यावत्सत्त्वमेवंविधैकस्वभाव एवायं भावो येन तस्मादेव तत्तसहकारिसम्पर्क एव तत्रैव तत्रैव काले तस्यैव तस्यैव कार्यस्यावि
भर्भावः । तथा च सति अनन्तरोदितस्वभावाव्यावृत्तावपि न पूर्ववत् १० कार्यस्याभावः । तस्य सहकारिणस्तदैव भावात् । न च पूर्वमपि
कार्यस्य भावः । तत्सहकारिण एवाभावात् । न चाधिकृतकार्योत्पादेऽ. प्यनन्तरोदितस्वभावव्यावृत्तिर्भावस्य । तस्य तथास्वभावत्वात् । न च कृतकार्यस्यैव पुनः करणम् । तम्य तथास्वभावत्वादेव । अथ किमिदं
लीलाविलासचेष्टितमस्य भावस्य । समचिन्त्योऽपर्यनुयोगार्हश्च स्वभावो १५ भावानां किमत्र कुर्म इति । अहो मोहमहोपाध्यायप्रागल्भ्यं यदेवंवि
धानप्येवं नर्तयति । तस्मात् स्वभावादुत्पादेऽपि कार्यस्य न तत्कार्यनिबन्धनस्य तम्य व्यावृत्तिः । तथैव तत्स्वभावस्य सद्भावेऽपि न पुनस्तस्यैव कार्यस्य करणमिति हि कः स्वस्थः श्रद्दधीतापि । तथाहि
यदि तावत् तत्स्वभावम्याव्यावृत्तिः कथमकरणं नाम । तच्चेत् कथम. २०
व्यावृत्तिः । यदैव हि तदनेनोदपादि पुनश्च न करिप्यते । तदैवास्य तत्करणस्वभावस्तदकरणस्वभावेन व्यपनीतः पाण्डित्येनेव जाइयम् । अन्यथा तत्करणस्वभावस्य भावेन हठाद् विवक्षित कार्यप्रसंगः । नहि दहनो दहनस्वभावे नैश्चयिकेऽनपगते न दहति । स्वभावापगमे वा नियतं कथंचिदस्थैर्यम् । अतादवस्थ्यस्यैवास्थैर्यात् । अथोच्यते यथा २५
दहनैकस्वभावोऽपि पावको दग्धदारूणि न दहति दुग्धत्वात् । तेषामितराणि तु तानि दहति अदग्धत्वात् । एवं कालभेदेऽप्येकस्वभावो
"Aho Shrut Gyanam"