________________
___७९१
परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः रणवैयर्थ्यम् । एवं च विनाशस्य कस्यचिद्रौद्धानामसिद्धेः 'ये यद्भावम् ' इत्यत्राप्रसिद्धविशेषणः पक्ष इति तस्मादतोऽपि नो हेतोः .....
___ अथास्तु संयोगादिरतिशयः किं त्वेकान्तव्यतिरिक्तस्यैतस्योत्पादे पदार्थस्य कथंचिदप्यनुपपत्तेः कथं न स्थिरतास्थितिरिति चेत् । नैवम्। ५ तद्धमत्वान्यथानुपपत्त्या तस्यैकान्तव्यतिरेकासिद्धेः । किं च । यदि कञ्चन विशेषमकुर्वाणोऽपि सहकारी स्वीक्रियते तदा समस्तवस्तूनां समस्तसहकारिताप्रसक्तिः । विशेषाकरणेन निःशेषाणामविशेषादिति । न विशेषविधानं विना सहकारी कश्चिदुपपद्यते । स्यान्मतम् । एवंभूत एव भावस्य स्वभावो येन विशेषाकारकमपि प्रतिनियतमेव सह- १० कारिणमपेक्ष्य कार्य जनयतीति । एषापि कदाशा | विकल्पैरनुपपद्यमानत्वात् । तथाहि-यदाऽभीष्टसहकारिसंनिधौ कार्यमसौ समुत्पादयति तदैतस्य प्राचीनोऽकिंचित्करः सहकारिकलायापेक्षालक्षणः स्वभावो व्यावर्तते न वा । यदि व्यावर्तते तदा कथं कथंचिदस्थैर्यप्रतिक्षेपः । स्वभावव्यावृत्तौ स्वभाविनोऽपि तदव्यतिरेकेण तद्वदेव व्यावृत्तेः । अथ न १५ व्यावर्तते कथं तर्हि कर्हि चित्कार्योत्पत्तिः स्यात् । अकिञ्चित्करसहकार्यपेक्षालक्षणस्वभावस्याच्यावृत्तेः पूर्ववत् । तथाहि-य एव तस्य कार्याजननकाले स्वभावः स एव तज्जननकालेऽपि । एवं च यद्यसौ पूर्वं तन्नाजीजनत् पश्चादपि माजीजनत् । अथ पश्चाजनयति तदा पूर्वमपि जनयतु नतु प्रभोरिव स्वैराचारोऽस्य युक्तः । अथाचक्षीत, २० विवक्षितसहकारिणा सह जननस्वभावत्वात् तद्भावेऽसौ तदा तज्जनयति । न पूर्वमपि तदभावादिति । एतदप्यायातपेशलम् । यस्माद्विवक्षितसहकारिणा सह तस्य तज्जननस्वभावत्वमपि यदस्थिरैकरूपं तदा सदैव तत्कार्यमर्जयन्नयं न मुनिशापेनापि प्रतिहन्तुं शक्यः । अन्यथा कथमधिकृतस्वभावस्य स्थैर्य स्यात् । तथाहि- यदि यावदायुरप्यसौ २५ तेन सहकारिणा साकं तत्कार्यजननस्वभावस्तर्हि तत्स्वभावशृङ्खलतया
"Aho Shrut Gyanam"