________________
प्रमाणनयतत्त्वा लोकालङ्कारः
[ परि. ५ सू. ८ भावादिति चेत् | अभवनस्यैवस्वभावभवने को दोषः । हेत्वभावनिःस्वभावते इति चेन्न । तद्भबनस्यैवाभावनहेतुत्वात् तद्भावभावित्वात् । कस्तुच्छस्य भाव इति चेत् । भावाभवनमेवेति ब्रूमः । एतदेव भावभवनं यद्भावाभवनमिति । एवं च तुच्छतया तद्भावसिद्धिः । ५ अन्यथा भवननाशायोगादिति । नापि निःस्वभावता । तस्य तुच्छ - तया ज्ञेयस्वभावत्वात् । अन्यथा तज्ज्ञानानुपपत्त्या तदेव न भवतीत्यज्ञातोक्तिप्रसक्तिः । भवनज्ञानेनाभवनाज्ञानात् । भवनस्य भिन्नकालत्वेनाभावस्वरूपत्वात् । अथ तस्यैव क्षणादूर्ध्वमभवनस्वभावत्वात् प्रत्यक्षेण च तथैव ग्रहणाद्यर्थार्थं तत्प्रवृत्तेरभव न ज्ञानोपपत्ते१० रुक्तदोषाभाव इति चेत् । न । विहितोत्तरत्वाद् भवनस्य भिन्नकालत्वेनेत्यादिना । अन्यथा त्वभवनानुपपत्तिरेव । तथाहि तत्कालभाविभवनादभिन्नमभवनं यदीष्टं तर्हि भवनमेवैतदिति कथमभवनोपपत्तिः । किं च । नास्य भाविनो नीरूपस्य चेन्द्रियेण ग्रहणमुपपद्यते । अतिप्रसंगात् । तथा न प्रत्यक्षेण कचिद् भवनवदभवनस्य ग्रहः । तथा १५ निश्चयाभावात् । न च निरंशानुभवभावेऽपि विभ्रमात्तदभाव इति भाषणीयम् । भवननिश्चयस्याप्यभावापत्तेः । न च भवननिश्चयनिबन्धनानुभवे भ्रान्तिर्नास्तीति वाच्यम् । अभवननिश्चयनिबन्धनानुभवस्यैव भवननिबन्धनत्वात् । न चैकस्यैव कचिद् विभ्रमः । कचिन्नेति युक्तम् । एकत्वविरोधात् । न चान्तेऽभवननिश्चयात्पूर्वमपि तद्गतिः । अस्य २० पूर्वं सविस्तरमपास्तत्वादिति । एवं च स्वगृहे मङ्गलगानमेतत् 'न भवत्येव केवलम् ' इति । अपि चास्मिन्नुच्यमाने नष्टशब्दस्य कश्चिदर्थोऽस्ति न वा । नास्ति चेत् किमनेनोक्तेन । अस्ति चेत् किं. सत्त्वाद्भिन्नोऽभिन्नो वा । भेदपक्षो न युक्तः । भावातिरिक्ताभावानभ्युपगमात् । अथाभिन्नस्तदास्तिनास्तिशब्दयोः पर्यायता तह्रुद्धयोचैकता स्यात् । तथा च क्षणक्षयिणो भावा, निरन्बयनाशो, न भवत्येव केवलम् इत्यादिशब्दानां सत्त्वातिरिक्तार्थानाभिधायित्वादुच्चा
२५
७९०
" Aho Shrut Gyanam".