________________
७८९
परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः तया तत्पूर्वकत्वेन तद्धेतुत्वोपपत्तेः । अन्यथा भवनेऽप्युत्पत्त्याधभावस्त. स्याप्यभवनक्रियाप्रतिषेधमात्रत्वात् । उभयत्र तदतिरिक्त क्रियाया अमावात् । किं च । नायं भवनक्रियाप्रतिषेधो ज्यायान् । विकल्पैरनुपपद्यमानत्वात् । स हि भवनस्वभावस्याभवनस्वभावस्य या क्रियेत । न तावद् भवनस्वभावस्य । अशक्यत्वात् । अन्यथा भवनस्वभावत्वविरोधात् । ५ अभवनस्वभावस्य भवनक्रियाप्रतिषेधे तु प्रयासवैयर्थम् । न हि अभवनम्वभावं भवनं भवितुमर्हति । अभवनस्वभावभवनप्रतिषेधे वा बलाद् भवनापत्तिः स्यात् । एवं च स एव न भवतीति वाङ्गात्रमेतत् । उक्तवदभवनायोगात् । शब्दानुपपत्तेश्च । तथाहिस एवेति भवनस्वभाव भावं परामृश्य न भवतीत्यभिदधतः शब्दार्थ- १० विरोधः प्रकटः । यदा न भवति न तदा भवनस्वभाव इति चेत् । एवं तर्हि अभवनस्वभावः स न भवतीति प्राप्तम् । ततश्च स एवेति क्षीणा वाचोयुक्तिः । ताक्षणभवनस्वभाव एवेति चेत् कथं द्वितीयक्षणे न भवति । एकक्षणभवनस्वभाव इति चेत् । किमेतावता । नहि द्वितीयक्षणोऽपि नैकः । तदेकक्षणभवनस्वभाव इति चेत् । १५ कोऽयं भवनातिरेकेण क्षणो नाम, यत उच्येत तदेकक्षणभवनस्वभाव इति । अतिरिक्तक्षणसद्भावे हि क्षणस्याक्षणिकत्वं स्यात् । तदैव तदपरक्षणाभावात् । भावे त्वनवस्थापत्तिः । तस्यापि भिन्नत्वेनावश्यमपरक्षणादित्यतिरिक्तक्षणापेक्ष्यनिबन्धनाभावादसदेतत् 'तदेक्षण' इत्यादि । एवं चाविशिष्टभवनानन्तरमभवनमिति प्राप्तम् । तथा च सति क्षणि- २० कत्वेऽप्यनिश्चयः । भवनकादाचित्कतया त्वभवनोत्पत्तिः, तन्नाशोत्तरं भवनोन्मजनं चापहृतमेव । उक्तनीतेस्तदवस्थत्वात् । न नश्वरमभवनं तुच्छत्वादिति चेत् । भवनेऽप्यतुच्छतया समानमेतत् । न समानम् । तस्याभवनाविरोधादिति चेत् । अभवनस्य भवने को नाम विरोधः । नीरूपस्य सरूपत्वासंभव इति चेत् । २५ सरूपस्य कथं नीरूपतासंभव इति वाच्यम् । स्वहेतोस्तत्स्वभाव
"Aho Shrut Gyanam"