________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ५ सू. ८
I
संदिग्धानैकान्तिकं च तत् । ननु स्वहेतुभ्यो भावाः समुत्पद्यमाना विनाशस्वभावनियता एवोत्पद्यन्त इत्युक्तं विनाशस्वभाव नैयत्येन भावानां कथमपि कालान्तरानुसरणव्यसनासंभवात् कथमनैकान्तिकताशङ्कापि । उक्तमेतत् । किं तूक्तिमात्रमेव । तथाहि - विनाश५ स्वभावनियता इति कोऽर्थः । किं विनाशे कर्तव्ये स्वभावेन स्वसतया नियता इति, किंवा विनाशस्वभावे विनाशरूपतायां नियतास्त इति । आद्यकल्पनायां विनाशस्य सहेतुकत्वप्रसक्तिः । पदार्थसत्ताया एव तद्धेतुकत्वात् । अथास्तु वस्तुसत्ता हेतुकत्वेन तस्य सहेतुकत्वं, तथापि क्षणिकत्वमप्रतिक्षेपणीयम् । वस्तुसत्ताहेतुकत्वे हि नाशस्य १० तत्सत्ताक्षणसमनन्तरं भावात् कथं क्षणिकत्वप्रतिक्षेपः । नन्वसौ नाशो वस्तुसत्ताकार्यः सन् यदि सदैव तथैवावतिष्ठते तदा कृतकत्वहेतोस्तेनैव व्यभिचारः । अथैतेन व्यभिचारोच्चारणमचारु | न किंचिद्रूपत्वादस्येति चेत् । अचतुरस्रमेतत् । वस्तुनिर्वर्तनीयतया तस्य न किंचिद्रूपताविरोधात् । अथ नाशोऽपि क्षणिकः कक्षीक्रियते १५ तर्हि नाशस्य नाशे द्वितीयक्षणे भावोन्मज्जनापतिः । अथ विनाशस्वभावे विनाशरूपतायां नियता भावा इति पक्ष: । सोऽपि न क्षमः । भावानां विनाशस्वभावताया असंभवात् ॥ प्रतिषेध्यप्रतिषेधयोरेकत्वस्यानुपपत्तेः । उपपत्तौ वा विश्वस्य वैश्वरूप्यानुपपत्तिः । ननु कालान्तरेऽर्थक्रियां प्रत्यशक्तिरेवास्य २० नास्तिता । सा च कालान्तरेऽसमर्थस्वभावत्वमिति चेत् । ननु यदि भावाभिन्ना सती कालान्तरानुषङ्गिण्यस्य नास्तिता तदा नूनमनक्षरमिदमुक्तं यदयमेव भावः कालान्तरानुषङ्गीति । अथ स्वकाल -- वत्कालान्तरेऽस्य नास्तिता नानुषज्यते तर्हि नास्तिताविरोधिनोऽस्तित्वस्य प्रसंग ः । अथ कालान्तरेऽशक्तत्वात् कथं तस्यास्तित्वानु-२५ षङ्गः । शक्तेः सत्तालक्षणत्वादिति चेत् । नतु कालान्तरकार्यं प्रत्यशक्तिरसत्त्वम्, किंवा स्वकार्यमपि प्रति कालान्तरेऽशक्तिरसत्त्वम् ।
७८६
,
" Aho Shrut Gyanam".