________________
परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः प्रथमकल्पनायां स्वकालेऽप्यसत्त्वप्रसंगः । तदानीमपि तस्य कालान्तरकार्य प्रत्यशक्तत्वात् । कालान्तरकार्यापेक्षया तस्यासत्त्वमेवेति चेत् । किमयं मन्त्रपाठः । नहि यो यत्राशक्तः स तदपेक्षया नास्तीति व्यवन्हियते धूमं प्रत्यशक्तस्य रासभस्याभावव्यवहारे गोचरत्वप्रसंगात् । न खल्वशक्तस्य स्वरूपमपि निवर्तत इति । स्वकार्यमपि प्रति काला- ५ न्तरेऽशक्तिरसत्त्वमिति पक्षे तु यदि कालान्तराधारेयमशक्तिस्तदा कथं तदात्मिका । अथ स्वकालाधारा तदा तदैवासत्त्वप्रसंगः । कालान्तरे तु तत्कालाधाराया अशक्तेरसत्त्वात् सत्त्वप्रसंगः । एवं च भावस्य संबन्धी विधिरात्मा प्रतिषेधः पुनरतोऽन्यः । सोऽपि च पदार्थात्मेति त्वदनुवाददशायामपि प्रतिपादयन्तस्त्रपामहे । ततो विना- १० शरूपतायां नैयत्यमपि न विनाशस्वभावनियतता संगतेत्यनैकान्तिकमेव कृतकत्वमिति । एतेन शङ्करनन्दनोक्तकारिकां यावदुक्तमपास्तम् । यदपि शङ्करनन्दन एव व्याकरोति ।
'नहि स्वहेतुजो नाशो नाशिनां नश्वरात्मता ।
नाशायैषां भवन्तस्ते भूत्वैव न भवन्ति तत् ॥ नाशिनां नश्वरात्मतैव नाशार्थो नतु विनाशहेतुजो विनाशो नाशार्थस्ततो यथा भावविशेषः स्वहेतोघंटात्मको भवन् घट एव भवति घटजनकाद् भावादघटात्मताया असंभवात् तथा विनश्वरो भवन् विनश्वर एव भवति । भूत्वैव समनन्तरं नाशात् । नान्यथा नश्वरः स्यात् । नश्वरात्मतयात्मलाभसमनन्तरनाशितैव क्षणिकत्वम्' २० इति । तत्रोच्यते । कीदृक्षा नश्वरात्मतेह विवक्षिता किं वेगोद्दण्डदण्डादिसंनिपाते प्रणशनशीलता, किं वा स्वयमेव । पौरस्त्य .... .... .... नुत्पादः सिध्यति । अनन्तास्तु विनाशहेतवोऽनियतकालाश्च तेषां सर्वदा सर्वेषां प्रतिबन्धवैकल्ययोरसंभवात् । कश्चिदेको निपतत्येव कालान्तरे । स च निपततः क्षणेनैव भावं विनाशयतत्युिपपद्यते । २५ सापेक्षत्वेऽपि ध्रुवो नाशः । तथा च त्रिलोचनः प्रकीर्णके।
"Aho Shrut Gyanam"