________________
[ परि. ५ सू. ८
गोचरो येनात्रापि क्षणिकाक्षणिकस्वभावभावोत्पादकत्वेन कारणानी सामर्थ्ये भेदः कल्पयेत् । ननु विनशनशीलत्वेऽपि भावानां यदैव वेगवन्मुद्गराद्युपनिपातस्तदैव विनाशो भविष्यतीति चेत् । तदसुन्दरम् । विनश्वरस्यापि प्रतिक्षणमविनाशे मुद्ररादिसंनिधानकालेऽप्यविशेषतो ५ नाशानुपपत्तेः । नहि प्रकाशस्य प्रतिक्षणमप्रकाशतायां कालान्तरे प्रकाशतोपलब्धा । अन्ते च भावानां नाशोपलम्भान्नाशित्वेऽभ्युपगम्यमाने प्रकाशस्य प्रकाशकत्ववत् सिद्धः स्वरूपमात्रानुरोधी विनाशो निर्विलम्बमादावप्यविशेषात् । अपि च । शतसहस्रक्षणस्थितिस्वभावो • भावः प्रथमक्षणे जातो द्वितीयादिक्षणे तथैवास्ते न वा । तथैवास्ते चेत् १० तदान्त्यक्षणेऽप्यस्य तथैवास्तित्वप्रसंगात् न कदाचिद्विनाशः स्यात् । तत्र तत्स्वभावत्यागे वा सिद्धं क्षणिकत्वम् । प्रतिक्षणं स्वभावभेदलक्षणत्वात्तस्य । किंच । वेगवन्मुद्ररादिनाशहेतुर्विनश्वरं वा भावं नाशयति, अविनश्वरं वा । तत्राविनश्वरस्य विनाशे हेतुशतोपनिपातेऽपि नाशानुपपत्तिः । स्वमावस्य गीर्वाणप्रभुणापि अन्यथा कर्तुमशक्यत्वात् । नश्वरस्य च नाशे १५ तद्धेतूनां वैयर्थ्यम् । नहि स्वहेतुभ्य एवावाप्तस्वभावे भावान्तरव्यापारः फलवान् । तदनुपरतिप्रसक्तेः । अपि च भावात् पृथग्भूतो नाशो नाशहेतुभ्यः स्यादपृथग्भूतो वा । यद्य पृथग्भूतस्तदा भाव एव तद्धेतुभिः कृतः स्यात् । तस्य च स्वहेतोरेवोत्पत्तेः । कृतस्य करणा-योगात् तदेव तद्धेतुवैयर्थ्यम् । अथ भिन्नस्तदासौ भावसमकाली - २० तदुत्तरकालभावी वा स्यात् । तत्र सहभावित्वे समकालमेव भावाभावयोरुपलम्भः स्यात् | अविरोधात् । तदुत्तरकालमा चित्वे तु घटादेः किमायातम् । येनासौ स्वोपलम्भं स्वार्थक्रियां च न कुर्यात् । नहि तन्त्वादेः समुत्पन्ने पटे घटः स्वोपलम्भं स्वार्थक्रियां च कुर्वन् केन - चित्प्रतिषेद्धुं शक्यः । ननु पटस्याविरोधित्वात्तदुत्पत्तौ घटस्य न स्वोप२५ लम्भस्वार्थक्रियाकारित्वाभावः । अभावस्य तु तद्विपर्ययादसौ स्यात् ।
१. इन्द्रेणापि ।
७८४
प्रमाणनयतत्त्वालोकालङ्कारः
" Aho Shrut Gyanam"