________________
परि. ५ सु. ८ ]
स्याद्वादरत्नाकरसहितः
भिज्ञाज्ञानेनाप्यत्रानुमानद्वितये पक्षस्य बाधा प्रामाण्यं चास्य प्रागेव
प्रकाशितम् । एवं च --
www.
क्षणभावादसाधककृतकत्वस्योपपादनपूर्वकं खण्डनम् ।
एकान्तक्षणभङ्गसंगतिकथाव्याजेन या संस्थिता
लोकेऽस्मिन् विषवल्लरी समधिकं संमोहयन्ती जनान् । सा सत्त्वाद्यनुमानमूलपटलीनिर्मूलनात्सर्वतो
दिष्ट्या शान्तिमुपाजगाम सुचिराचेतस्विनः संप्रति ॥ ५९४ ॥ असमञ्जसमुच्यतेतमां किमिदं जिन निरङ्कुशं
त्वया ।
क्षणभङ्गुरभावसाधकं कृतकत्वं यदिहास्त्यदूषितम्
॥ ५९५ ॥ १०
तथाहि---यत् कृतकं तत् क्षणिकम् । यथा विद्युत् । कृतकाश्च भावाः । हेतोरुत्पद्यमानत्वं हि कृतकत्वम् । तच्च विनश्वरत्वस्वभावनियतमेव । स्वहेतुभ्यो हि भावाः समुत्पद्यमाना विनाशस्वभावनियता एवोत्पद्यन्ते । ततः शिंशपात्ववृक्षत्वयोरिव कृतकत्वक्षणिकत्वयोस्तादास्यसिद्धिः । तथाहि शाखादिमद्विशेष एव शिशपेति यथेयं कचि १५ द्भवन्ती नाशिंशपा स्यात् । अथाशिंशपा स्यात्तदा तस्याः स्वरूपाप्रसिद्धेर्न शाखादिमद्विशेषरूपा सेति शाखादिमत्त्वस्यैव वृक्षत्वात् सिद्धमेव तत्र वृक्षत्वम् । तथा कृतकत्वमपि भूत्वैवाभवनात्मकत्वक्षाणकत्वैकात्मकमिति । यत्र कृतकत्वमस्ति तत्र यथा तदस्ति तथा तदात्मकं क्षणिकत्वमपि । तदाह शङ्करनन्दनः ।
1
' कारणाद्भवतोऽर्थस्य नश्वरस्यैव भावतः । स्वभावः कृतकत्वस्य भावस्य क्षणभङ्गिता ।। न च हेतुसामर्थ्यप्रभवत्वाविशेषेऽपि केचित् क्षणिकाः केचिदक्षणिका भावाः संभविष्यन्तीत्यभिधेयम् । कारणसामर्थ्यभेदात्पावकादिवत् । न वै पावकोत्पादककारणकलापः कश्चित् प्रकाशोष्णस्पर्शरहितं पावकमुत्पादयति कश्चित् तद्विपरीतमिति तत्सामर्थ्यभेदः प्रतीति
७८३
"Aho Shrut Gyanam"
२०