________________
७८२
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५. ८ न च तत्रानवस्थानप्रतीतिमन्तरेणात्रैव क्षणे एतदस्ति न भूतभविध्यतोरिति प्रतीतिर्भवितुमर्हति । तथा च हेतोरसिद्धिः । अथ पूर्वापरक्षणविच्छिन्नत्वेन तस्यावस्थितत्वात् तत्प्रतीतिमन्तरेणापि तत्प्रतीतिरित्युच्यते । ननु पूर्वापरक्षणविच्छिन्नत्वं 'यन्निाति ' ५ इत्यादित एवानुमानात् प्रसिद्धमपरस्माद्वा । अत एव चेदितरेतराश्रयम् । अपरमपि न किंचिद् विचारसहम् । यदि चैकक्षणस्थायिनापि तेन पूर्वोत्तरक्षणयोरभावः प्रतीयमानो न विरुध्यते तदा भावोऽपि पूर्वोत्तरक्षणयोः प्रतीयमानोऽविरोधी । विशेषाभावात् । क्षणत्रयस्था
यिनि तु ज्ञाने तेषां तथा प्रतिभासे हेतोरेकदेशासिद्धता । पक्षीकृतेषु १० सकलसंस्कारेष्वेकक्षणस्थायित्वप्रतिभानस्य हेतोर्विज्ञानवर्जं वर्तनात्
तस्य क्षणत्रयस्थायिनः स्वयं तथैव प्रतिभासात् । यत्पुनरसिद्धतापरिहारे व्याहारि ' पूर्वापरकालयोरेकत्वे हि पदार्थस्य दृष्टाद्रूपान्तरविरहात्सकलकालकलाकलितस्य देशान्तरजुषोऽपि रूपस्यावश्यं प्रतिभासः'
इति । तत्र स्यादेतत् यदग्दिशोऽपि ज्ञानं विनाशावधेर्वस्तुनो वेदक १५ स्यात् । न चैवम् । क्षयोपशमानुरूपं तस्य प्रवर्तनात् । यदप्युक्तम्
'शिंशपानुमानेनेव व्यवहारः साधनीय' इति । तदप्यसत् । यतस्तदा व्यवहारसाधनायेदमुपादीयेतानुमानं यदि प्रत्यक्षेण पूर्वापरक्षणविच्छिनैकक्षणोपलक्षणं स्यात् । न चैवं, पूर्वमपहस्तितत्वात् । किंच ।
अनुमानद्वयेऽप्यस्मिन् व्यादिक्षणस्थायिना ज्ञानेन तावत्कालस्य २० भावस्य प्रतीतेः पक्षस्य प्रत्यक्षस्य बाधा । ननु ज्ञानस्य क्षणिकत्वेन
यादिक्षणावस्थायित्वाभावात् कथं प्रत्यक्षेण पक्षबाधेति चेत् । ननु क्षणिकत्वं तस्याभ्यामनुमानाभ्यां सिद्धं वेदिष्यते । तदेतरेतराश्रयम् । अन्यानुमाने तु दारिद्यम् । तथा स एवायं स्फटिकः स चायं शत. कोटिरित्यहमहमिकया कथंचिदेकत्वं स्फटिकादीनां प्रकटयता प्रत्य
१ शतकोटि:-वज्रः।
"Aho Shrut Gyanam"