________________
परि. ५ स. ८] स्याद्वादरत्नाकरसहितः किंतु भिन्नाभिन्नानीति संगिरामहे । तत्र भेदमात्र विकल्पावलम्बनसंभवि दूषणमभेदाश्रयणेन, अभेदमात्रविकल्पावलम्बनसंभवि तु भेदाश्रयणेन प्रतिहतम् । नन्वेतौ भेदाभेदौ विरोधिनौ कथमेकत्र निविशेते । उच्यते । नेमौ विरोधिनौ । सह दर्शनात् । सहानवस्थालक्षणो हि विरोधः । अनवस्थानं चादर्शननिबन्धनम् । न चात्र तदस्तीति ५ नास्ति विरोध इति । अत्रैतदसहिष्णुर्मीमांसाजीवरक्षाप्रकरणे शालिकः प्राह- " नं च तयोः सहदर्शनमुपपद्यते । एकाकारप्रतीतिरेख खल्वभेददर्शनं विलक्षणाकारप्रतीतिस्तु भेददर्शनम् । तत्र यद्येकाकारप्रतीतिस्तार्ह विलक्षणाकारप्रतीतिर्नास्ति विलक्षणाकारत्वे च प्रतीते काकारप्रतीतिरस्ति" इति । तत्र १० किमुच्यतेऽस्य मूढत्वं यद्भट्टद्वेषकषायितमनाः प्रतीतिमपि न पर्यालोचयति । न खल्वेकाकारपरामर्शिन्येव तदितरैव च प्रतीतिः काप्यस्ति । सती हि तां कः समुल्लङ्घथितुमीशः । सदृशविसदृशपरिणामापन्नेषु पदार्थेषु तदाकारोल्लेखिनी तु सा युक्ता समस्ति च तादृशी मैव च भेदाभेदप्रतीतिः । घटो हि प्रतीयमानः सकलवस्तुभ्यः सदृशविसदृशाकारतयाऽभिन्नो भिन्नश्च प्रतीयत इति । किं च त्वयापि तावत् प्रतिज्ञातं प्रत्यभिज्ञानम् । तम्माच्च सिद्धमेव भेदाभेददर्शनम् । तथा हि-- यदेवं कनकं कङ्कणतया परिणतं प्रागासीत् तदेवेदानी केयूरतया संवृत्तमित्यस्ति प्रतीतिः । अत्र च कङ्कणस्य केयूररूपपर्यायप्रतीतेरनुस्यूतैककनकाकारप्रतीतेश्च कथं न नाम भेदाभेद प्रतीतिः २० स्यात् । किं च ।क्षणिकवस्तु विनष्टं सत् कार्यमुत्पादयति, अविनष्ट, उभयरूपं, अनुभयरूपं वा । न तावत् विनष्टम् । चिरतरनष्टस्येवावान्तरनष्टस्यापि जनकत्वविरोधात् नाप्यविनष्टम् । क्षणभङ्गभङ्गप्रसंगात् । नाप्युभयरूपम् । निरंशैकस्वभावस्प विरुद्धोभयरूपासंभवात् । नाप्यनुभयरूपम् । अन्योन्यव्यवच्छेदरूपाणामेकस्यापर विधाननान्तरीयकत्वेनानुभयरूपत्वायोगात् । तदेवं क्षणिकैकान्ते कार्यकारणभावानुए१प्र. पं. पृ. ६ पं. ७
"Aho Shrut Gyanam"