________________
७७६
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ स. ८ कृतं किमपरे कुर्वन्तीति चेत् । न कृतं कुर्वन्ति किं वेकेन क्रियमाणमपरेऽपि कुर्वन्ति । यत्रैकमेव समर्थं तत्रापरेषां क उपयोग इति चेत् । सत्यम् । न ते प्रेक्षापूर्वकारिणो यदेवं विमृश्योदासत इति । तदेतदखिलमाकाशचित्रम् । यदि हि बीजादयः प्रत्येकमेव समर्था५ स्तर्हि किमर्थ कृषीबलः प्रेक्षापूर्वकारी परिकर्भितायां भूमौ बीजकणा
नावपति पयसा च मधुरेणासिञ्चति । परस्पराधिपत्येन तेभ्यः प्रत्येकमङ्गुरजननयोग्यक्षणोपजननायेति चेत् । यद्यङ्कुरजननयोग्यक्षणोपजननाय बीजं स्वहेतुभ्यः समर्थमुपजातं किमवनिसलिलाभ्यामथासमर्थम् ।
तथापि तपोरकिंचित्करः संनिधिः स्वभावस्यापरित्यागात् । तथा च१० यदि समजनि सत्यं वस्तुसार्थोऽसमर्थः
___कथयत सचिवानां संनिविः स्यात् किमर्थः ।। ५९३ ॥
क्षित्युदकाभ्यां बीजस्य स्वसंतानवर्तिनी असमर्थक्षणान्तरारम्भणशक्तिनिरुध्यत इति चेत् । अस्तु तर्हि तस्मात् असमर्थक्षणानुत्पत्तिः।
सुसमर्थक्षणोत्पत्तिस्तु दुर्लभा कारणाभावात् । न च स्वभावभूतायाः १५ शक्रस्ति निरोधः । भावस्यापि विरोधप्रसंगात् । सहेतुकंश्च विनाशः
प्राप्नोति । न विशिष्टक्षणोत्पादनशक्त्याधानं च बीजस्य शक्यं क्षणिक. त्वात् । स्वभावाव्यतिरिक्तशक्त्युत्पादने चोत्पन्नोत्पादप्रसंगात् । तस्मादसमर्थन्योत्पावतो न कदाचिदपि क्रिया । समर्थस्थ चोत्पादानन्तरमेव करणमिति द्वयी गतिः । नन्वर्थान्तरसाहित्ये सति कारणं तस्यानुपयोगादिति नास्ति किमपि क्षणिकैकान्ते सहकारिकारणमपि । एवं चायुक्तमुक्तम् । निकुरम्बान्निकुरम्बस्योत्पत्तावपि न रूपादीनां स्वरूपसंकरप्रसंगः । पूर्वरूपादिक्षणैरुपादानसहकारितया सामग्रीभेदेन रूपादिक्षणानामुत्यादनादिति । नन्वतिशयाधानपक्षेऽपि कथं सहकारिता ।
स्वभावभूतातिशयारम्भाभ्युपगमे हि भावस्याप्युत्पत्त्या क्षणिकत्वप्रसक्तिः। २५ अतत्स्वभावभूतातिशयारम्भाभ्युपगमे तु भावस्य प्राग्वदसाधकत्वमिति। अत्रोच्यते । नायमस्माकमेकान्तो भिन्नान्येव वस्तून्यभिन्नान्येव वा
१ नायमित्यतः विरोध इत्यन्त पृ. ७.७ पं. ६ पाठः प्रकरणपत्रिकायां जी. रक्षाप्रकरणे पृ. ५ पं. ३२ किञ्चित्पाउभेदेन समुपलभ्यते ।
"Aho Shrut Gyanam"