________________
परि. ५ सू.८] स्याद्वादरत्नाकरसहितः
७७५ देवबलः प्राह-निर्भागेऽपि च कार्ये आपापोद्वापाभ्यां विशेषहेतूनां विभागसिद्धिरिति छलनोद्यानामनवसरः' इति । तदपि प्रत्युक्तमवसेयम् । अथ मा भूदयं दोष इति स्वभावविशेषाः कार्यतो व्यतिरिक्ता एवेष्यन्ते । एवमपि कारणव्यापारस्य तेष्वेवोपयुक्तत्वात् तत्कार्यमहेतुकमनुषज्यत इति यत्किंचिदेतदिति । कथं कार्यम्य जन- ५ कैराधेयातिशयता संगच्छते । किं च । सर्वैरपि समनन्तरप्रत्ययचक्षुरादिभिर्जनकैनिकार्ये बोधरूपतादयोऽतिशया आधीयन्ते । ततो लक्षणवाक्यं यस्मादिति यच्छब्देन कतरत् निर्धारयामो यस्योपादनता व्यवह्रियेत । ननूक्तं समस्तविशेषकोडीकरणसमर्थ आत्मा यस्मादुत्पद्यत इति सर्वेष्वपि हि जनक्षेषु मध्ये यत्समस्तविशेषकोडीकरण- १०. समर्थवस्तूत्पादनगुणयुक्तं तन्निर्धार्यत इति । भैवं वोचथाः । समस्तविशेषकोडीकरणसमर्थस्य कस्यचिदात्मनः कुतोऽप्युत्पत्तिसंभवात् । सत्यां हि तस्यां कार्यस्यापि कारणकालतैव स्यात् अन्यथा कारणकालानाकलनेन कार्यस्य समस्तविशेषकोडीकरणसामर्थ्यस्यासंभवादिति न किंचित् उपादानकारणं संगच्छते । नापि सहकारिकार- १५ णम् । क्षणिकैकान्ते सहकारिकारणैरुपादानेऽतिशयस्याधातुमशक्तेः । अत्राह- किमिदं गौरत्वमपि पाण्डुरोगतया प्रत्याकलितम् । अतिशयमनासूत्रयतामेव होकं कार्य कुर्वतां तेषां सहकारित्वं सुन्दरम् । किमर्थं तर्हि तेन अपेक्ष्यन्त इति चेत् । को वै ब्रूतेऽपेक्ष्यन्त इति । प्रत्येकमेव हि कार्यजननाय समर्था अन्त्यावस्थाभाविनः क्षणाः का २०. तेषां परस्परापेक्षा । यत्तु प्रत्यासीदन्ति तदुपसर्पणकारणस्यावश्यभावनियमात् नतु संभूय कार्यकारणाय । तत्काले चोपसर्पणनियमहेतुः । तेषां वस्तुम्वाभाव्यात् । प्रत्येकं समर्था हेतवः प्रत्येकमेकैकमेव कार्यं जनयेयुः किमित्येकमनेके कुर्वन्तीति चेत् । अत्राप्यमीषां कारणानि प्रष्टव्यानि । यान्यमूनेकार्थनिवर्तनशीलान् प्रभावयन्ति । २५, वयं तु यथादृष्टार्थस्वरूपवक्तारो न पर्यनुयोगमामः । कार्यमेकेनैव
"Aho Shrut Gyanam"