________________
७७४
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ सू. ८ निवृतेः । अथात्र मृच्छब्देन तत्पिण्ड एवोच्यते यदि मृन्मयत्वेन तदा कुण्डमप्युच्यताम् । तदविशेषात् । अस्तु वा यथाकथंचित् मृत्पिण्ड एव तच्छब्दवाच्यस्तथापि कथंचिदन्वयं विना नोपादानोपादेयनियम इत्युक्तमेव । यदप्ययमेवोपादानम्य लक्षणान्तरमाह- . ५ 'जनकैराधेयातिशयस्य कार्यस्य समस्तविशेषकोडीकरणसमर्थ
आत्मा यस्मादुत्पद्यते तदुपादानं यथा चक्षुरादिभ्यश्चक्षुर्विज्ञानस्य समस्तोपकारमयं बोधरूपत्वं समनन्तरप्रत्ययादुत्पन्नमिति तदुपादानम् ' इति । तत्रापि किमुच्यतेऽनेन साध स्वमतस्यापि न यः
स्मरति । एकरूपमेव हि कार्यमस्योत्पद्यते ततस्तजनकैराधेयातिशय १० मिति कथं संगच्छते । आधेयातिशयतायां हि तस्य सांशतापत्तेर
नेकरूपता स्यात् । स्वान्मतं, भिन्नस्वभावेभ्यो मिन्नस्वभावमेव कार्य जायते कारणव्यापारविरचितानां कार्यस्वभावविशेषाणामसंकीर्णत्वात् । यथा विषयन्द्रियमनस्कारबलभाविनो विज्ञानस्य विषयात्तदाकारत्वम् ।
तत् ज्ञानेन्द्रियात् न मनस्कारात् । इन्द्रियाद्विषयग्रहणप्रतिनियमो १५ नान्यस्मात् । मनस्काराद्वोधरूपता न परतः । न च कारणव्या
पारविषये नानात्वेऽपि सति कार्य नाना भवति । निर्विभक्तरूपस्यैवास्योपलम्भात् । तदपि युक्तिरिक्तम् । कथं हि नामकस्वभावं कार्य स्वभावविशेषाश्च तदव्यतिरिक्ता एव चित्राः स्युः । नानात्वैकत्वयोः
परस्परल्याहतेः । विषयनि सितादयश्च विज्ञानाव्यतिरेकिणो यथा २० विषयादिभिः क्रियन्ते तद्वद्विज्ञानाव्यतिरिक्तबोधरूपतादिकारिभिर्भनस्कारादिभिरपीत्येवं सर्वेषामशेषमनस्कारादिजन्नत्वे सति विषयनि
सितादिव्यवस्थानुपपत्तिः । तथाहि-न विषयात् तदाकारत्वसंभवो बोधरूपाभेदात् । न चासंभवः । तदाकारत्वात् । तथा न मन
स्काराब्दोधरूपसंभवो विषयाकाराव्यतिरेकात् । न चासंभयो बोध२५ रूपत्वात् । इतीत्थमिन्द्रियादिप्वपि द्रष्टव्यमिति मिथो विरोधसंभवेन
तद्नुपपत्तिः । एतेन यदपि धर्मोत्तरविशेषव्याख्यानकौशलाभिमानी
"Aho Shrut Gyanam"