________________
परि. ५. ८ }
स्याद्वादरत्नाकरसहितः
दिति चेत् । एतदपि कुत इति वाच्यम् । अभ्रान्तसमतैकावसायादिति चेत् । न । नीलपरमाणुषु परस्परप्रत्यासन्नेषु निरन्तरं जायमाने परस्परोपादानत्वप्रसंगात् । अस्ति हि तेषां तदुत्पत्तौ सत्यां समत्वमाभिमानिके कत्वाध्यवसायः, अभ्रान्तैकत्वाध्यवसायश्च न कचिदपि । एतेन पाठान्तरव्याख्यापि प्रत्युक्ता । तस्मात् कथंचिदन्वयाय ५ द्रुह्यतां न प्रकृतिविक्रिये अप्युपादानोपादेययोर्लक्षणमुपपद्येते । स्निह्यतां तु तस्मिन्न किंचित् क्षणमिति । एतेन यदप्युपादानलक्षणं धर्मोत्तरः प्राह - ' यस्य संताननिवृत्तौ यदुत्पद्यते तन्निवृत्तिधर्मसंतानमुपादानभितरस्य यथा मृत्संताननिवृत्योत्पद्यमानस्य कुण्डस्य मृदुपादानम्' इति । तत्प्रतिक्षिप्तम् । सर्वथा संताननिवृत्तिपक्षे १० सन्तानान्तरेणापि सहोपादानोपादेयभावः स्यात् । कथंचित्संताननिवृत्तिपक्षे तु कथंचिदन्वयस्य प्रसक्तेः । यदप्ययमेव ' ननु चाहुरस्य बीजमुपादानमपि न सर्वथा विनिवृत्तं मध्यभागान्निर्यतोऽङ्कुरस्य दर्शनात् ' इत्याशङ्कय प्राह- ' न वै बीजमेकं द्रव्यं किं तर्हि परमाणुसमूहस्तस्य त्वक्सारफल्गुभागा भिन्नसंततयः सारभाग- १५ ततेश्वांकुरसंभूतिः' इति । तत्रायं तावद्व्यवहारगोचरीभूयमनापन्नत्वात् । ( व्यवहारगोचरीभूतमतापन्नत्वात् ) क्षणगतमुपादानोपादेयभावनुपेक्ष्य संतानस्यैव व्यावहारिकत्वात् तद्वतमेव तं लक्षयति । व्यवहारवीथीव्यवस्थितामेव बीजस्यैकतां तिरस्कृत्य व्यवहारानहीं तस्य परमाणुमात्रता सन्तानभूयस्तां च प्रतिपादयतीति महन्नैपुण्यमस्य । भवतु २० यात्रैवम् । तथापि कुण्डोत्पादे मृद उपादानता कथमुदाहृता । न खलु कुण्डोत्पादे मृत्संततिः कङ्कणोत्पादे सुवर्णसंततिर्वा निवृत्तेति कोऽप्यधूर्तवञ्चितः प्रत्येति । तदापि मृन्मयमिदं हिरण्मयमेतदिति सर्वैरनुभवात् । क्षणिकत्वान्निवृत्चैव तदा मृदिति चेत् । क्षणिकत्वं तावदधाप्याशीविषमणीयते । अस्तु वा तत्तथापि संतानानेवृत्ताविति २५ लक्षणपदं मा विस्मारि । नहि तदा मृत्संताननिवृत्तिः । तत्क्षणस्यैव
" Aho Shrut Gyanam"
७७३