________________
७७२
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ स. ८ यभूतसमस्तपदार्थस्वरूपत्वानुपपत्तेः । तत्त्वे वा विज्ञानवादप्रसंगः । स च प्रागेव प्रतिहतः । अथैकावसायशब्देनोपचारात् तद्गोचरो विवक्षितः, एकत्वेनाध्यवसीयमाना हेतुफलसंततिरुपादानोपादेय
रूपेति । तथाप्यव्यापकता । सुगतसंवेदनसंताने तस्याभावात् । ५ सुगतज्ञानस्य विधूतकल्पनाजालज्ञानत्वेन लौकिकानां तु तदगोचरत्वेन तत्रैकावसायासंभवात् । प्रामाणिकानां तु तत्रैकावसाये प्रतिपाद्यमाने सुगतज्ञानस्य क्षणिकत्वक्षतिप्रसक्तिरिति न ' अभ्रान्तेत्यादि । उपादानोपादेययोर्लक्षणम् । यदपि 'विसभागोत्पत्तौ प्रकृतिविक्रिये' इत्यु
पादानोपादेयलक्षणमलसि । तत्र केयं विसभागोत्पत्तिर्नाम । विसदृश१० संतानोत्पत्तिरिति चेत् । सा यदि सर्वथा तदा असंभविनी । काष्ठा
कारयोरपि द्रव्यत्वादिना सादृश्यप्रतीतेः। अथ कथंचिदसावभिप्रेता तदा देशान्तरे कालान्तरे च समुत्पद्यमानस्य कथंचिद्विसदृशाङ्गारसंतानस्यात्रत्येदानीन्तनकाष्ठसंतानापेक्षया विकृतत्वप्रसक्तरुपादेयता, अत्र.
त्येदानीन्तनकाष्ठसंतानस्य च तदपेक्षया प्रकृतित्वापत्तेरुपादानता १५ स्यात् । तत्र तत्सत्ताननुगमात् न तेन तस्योपादानोपादेयभाव इति
चेत् । तत् किं विवक्षितकार्यदेशकालयोविवक्षितकारणस्य सत्तानुगमोऽस्ति । ओमिति चेत् । तर्हि सिद्धान्तबाधा । कार्यदेशकालयोस्तसत्तानुवृत्त्या क्षणभङ्गुरताभ्रंशात् । नास्ति चेत् । कथं तर्हि देशा
न्तरकालान्तरवर्तिकार्येणोपादानोपादेयभावः समुपस्थितोऽतिथिः प्रति२० विध्यताम् । किं च । प्रकृतिभूतस्य काष्ठस्याकारो विकृतिरिति कुतो निर्णेय त्वया यावता वह्वेरेवासौ विकारः किं न स्यात् । वह्निसंबन्धिकाष्ठादेव तदुत्पत्तेरिति चेत् नैवम् । काठसंबन्धिवहेरेव तदुत्पत्तिरित्यपि कल्पनाया अनिवारितप्रसरत्वात् । पार्थिव पार्थिवोपादानमेव भवितुमर्हतीति चेत् । कुत एतत् निरणाथि । सभागेषु तथा दर्शना
१. विधूतकल्पनाजालगम्भीरादारमूर्तये । नमः समन्तभद्राय समन्तस्फुरत्विषे' ॥ इति प्रमाणवार्तिकस्य प्रथमश्लोकः ।
"Aho Shrut Gyanam"