________________
परि. ५सू. ८ } स्याद्वादरत्नाकरसहितः प्रतिवाद्यसिद्धम् । न खलु कलशसंतानो हेतुफलभूतक्षणपरंपरारूप इति वयमास्थिष्महि । सत्त्वानुमानात्तसिद्धावितरेतराश्रयत्वम् । अनुमानान्तरमपि नोपन्यसितुं शक्यमिति न द्वितीयपक्षोऽप्युपपन्नः । एकावसायस्तयोर्लक्षणं स्वरूपमिति तृतीयपक्षेऽपि, ज्ञानसंतानगतस्योपादानोपादेवभावस्वरूपं कथ्येत सार्वत्रिकस्य वा । यद्याद्यस्य तदा ५ घटतदुत्तरक्षणवदिति निदर्शनोपदर्शनमसंगतं स्यात् । तस्याज्ञानरूपत्वात् । न च सर्वत्र ज्ञानेऽप्येकोऽवसायोऽस्ति । नहि भवति यैव घटबुद्धिः सैव पटबुद्धिरिति । अथ य एवाहं घट वेनि स एव पटमित्यस्ति ज्ञानैकत्वावसाय इति चेन्न । एतस्यात्मविषयत्वात् । नन्वात्मनो ज्ञानादन्यस्याभावात् ज्ञानविषय एवायमिति चेत् । न । १० लौकिकैकावसायस्य त्वयाऽत्र विवक्षितत्वात् । लौकिकाचाहमित्यात्मानमेव मन्यन्ते । प्रामाणिकैकावसायविवक्षायां तु भवतो विरुद्धभाषिता स्यात् । तथाहि-तत्त्वतश्चेदभ्रान्तः स एवायमित्येकावसाय: कलशादी, कुतस्तर्हि तत्र हेतुफलतया संतानता कुतस्तरां चोपादानोपादेयता स्यात् । यदप्ययमेव प्राह-'अस्ति च विषयोपरागं विवेच्य चैतन्य. १५ मात्रमामृशत एकपुरुषाभिमताय संतती सैत्रेयं बुद्धिरित्यवसायः' इति । सोऽयमस्य विश्वामित्रस्पर्द्धयेवाभिनवसर्गमनोरथः । विषयोपरागविवेकेन लौकिकानामधान्तत्वेन संमतस्यैकावसायस्य बुद्धिष्वभावात् । यदि हि विषयोपरागविवेकेन प्रकृतबुद्धिप्येकावसायो लौकिकानां प्रादुःष्यात् तदा समस्तोपाधिपरिहारेण, उपाध्यायशिष्यबुध्यो- २० ऽरप्ययं किं न स्यात् । तथा च तयोरप्युपादानोपादेयभावो भवेत् । अथोपाध्यायशिष्यशरीरयोस्तद्भेदग्रहणकारणयोस्तत्र व्यक्तमनुभवात् न तेषां तदेकावसाय इति चेत् । तर्हि घटवुद्धिरियम् पटबुद्धिरियमिति घटपटाधुपाधीनां तद्भेदकारणानां प्रकृतेऽपि व्यकमनुभूतेः कथमयं प्रादुर्भवेत् । अथ सार्वत्रिकस्योपादानोपादेयभावस्यैकावसायः स्वरूपं २५ तदप्ययातिदोषदुष्टम् । अवसायस्य ज्ञानरूपत्वेनोपादानोपादे
"Aho Shrut Gyanam"