________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ स. ८ स्वसमये कार्य जायते नासतीत्येतावता क्षणिकपक्षेऽन्वयव्यतिरेकानुविधाने नित्येऽपि तत् स्यात् । स्वकालेऽनाद्यनन्ते सति समर्थे नित्ये कारणे स्वसमये कार्यस्योत्पत्ते, असत्यनुत्पत्तेश्च प्रतीयमानत्वात् ।
सर्वदा नित्ये समर्थे सति स्वकाल एवं कार्यं भवत् कथं तदन्वय५ व्यतिरेकानुविधायीति चेत् । तर्हि कारणक्षणात् पूर्व पश्चाच्चानाद्यनन्ते तदभावेऽविशिष्टे कचिदेव तदभावसमये भवत् कार्य कथं तदन्वयव्यतिरेकानुविधायीति समः समाधिः । ततो न नियमवदन्वयव्यतिरेकानुविधानत्वमप्युपादानरूपम् । यदपि ज्ञानश्रीः सूक्ष्ममिवोत्प्रेक्षते ।
'अभ्रान्तसम्मतैकावसायः प्रकृतिविक्रिये ततो हेतुफलस्योपादा१० नोपादेयलक्षणम् । सभागहेतुफलसंततौ परमार्थतो भ्रान्तोऽपि
लोकापेक्षया अभ्रान्तत्वेन संमतः । स एवायमित्येकावसायः प्रत्यभिज्ञानरूप उपादानोपादेयलक्षणं घटतदुत्तरक्षणवत् क्वापि दृश्यते । तत्रायमर्थः । अभ्रान्ता सत्या या समता सादृश्यं तया
उपलक्षित एकावसायः अभिमानिकत्वावसायः प्रत्यभिज्ञानरूपः १५ पारमार्थिकवस्तु न कचिदपि । विसभागोत्पत्तौ तु प्रकृतिरुपादा
नस्य विकृतिरुपादेयस्य लक्षणम् । काष्ठाङ्गारवदिति ।' तदप्यसंबद्धम् । यतस्तत्रैकावसाय उपादानोपादेवलक्षणमिति कोऽर्थः । किमेकावसाय एवोपादानोपादेययोर्लक्षयिता । किं वा तेन हेतुना ते
लक्ष्यते । यद्वा स तयोर्लक्षणं स्वरूपमिति । नाद्यः कल्पः । एकत्व२० परामर्शकुशलत्वेनास्यैकत्वस्यैव लक्षकतयोपादानोपादेयवार्ता प्रति मूक
त्वात् । नापि द्वितीयः । साध्यसाधनयोः प्रतिबन्धस्यावधारयितुमशक्यत्वात् । नहि यत्र यन हेतुफलसंततावेकावसायस्तत्र तत्रोपादानोपादेयभाव इत्यत्र विपक्षे बाधकं किंचित् प्रमाणमस्ति । यदपि हेतुफलसंतती' इत्येकावसायस्य विशेषणमभाणि । तदपि
१' अभ्रान्तसमतैकावसायः' इति ज्ञानश्रीसंमतः पाठः । स चा पृ. ७७३ ६१. स्याद्वादरत्नाकरे खण्डयते ।
"Aho Shrut Gyanam"