________________
पारे. ५ सू. ८]
स्याद्वादरत्नाकरसहितः
७६९
प्रत्ययोत्पत्तिर्वा स्वगतसकलविशेषाधायकत्वाभावात् । किं च । स्वगतसकलविशेषाधायकत्वे सर्वात्मनोपादेयक्षण एवास्योपयोगात् तत्रानुपयुक्तस्वभावान्तराभावादेकसामग्र्यन्तर्गतमन्यं प्रति सहकारित्वाभावः । ततः कथं रूपादेरसतो गतिः स्यात् । समनन्तरप्रत्ययत्वमप्युपादानलक्षणमनुपपन्नम् । यतोऽयमत्रार्थः । समोऽनन्तरश्च यः प्रत्ययः कारणं ५ स उपादानमिति । तत्र च कार्येण समत्वं कारणस्य सर्वात्मना, एकदेशेन वा ! सर्वात्मना चेत्तर्हि कार्यकारणयोरेककालता स्यात् । तथा च सत्येतरगोविषाणवत् तयोः कार्यकारणभावो न स्यात् । कथंचित् समत्वे तु योगिज्ञानास्मदादिज्ञानयोरप्यानन्तर्येण स्थितयोनित्वादिना समत्वेनोपादानोपादेयभावप्रसंगः । अनन्तरत्वमपि देश- १० कृतं कालकृतं वा भवेत् । न तावत् देशकृतम् । स्वदेशकार्योत्पादकस्याप्युपादानत्योपगमात् । न कालकृतम् । विवक्षितक्षणानन्तरं निखिल भुवनवर्तिवस्तुक्षणानामुत्पतेः । सत्त्वादिना समत्वेन च तदपेक्षया तस्योपादनताप्रसंगात् । नियमवदन्वयव्यतिरेकानुविधानत्वं तल्लक्षणमिति तुरीयपक्षोऽप्यकक्षीकारार्हः । यतोऽयमत्रार्थः । नियमवतो- १५ ऽन्वयव्यतिरेकयोः कार्येणानुविधानं यस्य तदुपादानम् । एतच्च सुगतव्यतिरिक्तसंतानचित्तैर्व्यभिचारि । तेषां स्वजन्येन सुगतचितेन नियमवदन्वयव्यतिरेकानुविधानेऽप्युपादानत्वायोगात् । तदजन्यत्वे तु तस्य तदविषयत्वापत्तिः । 'नाकारणं विषयः' इति स्वयमुपगमात् । अव्यभिचारेणान्वयव्यतिरेकानुविधानत्वाविशेषेऽपि प्रत्यासत्तिविशेष- २० वशात् किंचिदेव किंचित्प्रत्युपादानं न सर्वमिति चेत् । स कोऽन्योऽन्यत्रैकद्रव्यतादात्म्यात् । देशप्रत्यासत्ते रूपरसादिभिः, कालप्रत्यासत्तेः समसमयवर्तिभिः, भावप्रत्यासत्तेश्चैकार्थगोचरानेकपुरुषज्ञानैरनेकान्तात् । न च क्षणिकैकान्तेऽन्वयव्यतिरेकानुविधानं घटते । न हि समर्थे कारणे सत्यभवतः स्वयमेव पश्चाद्भवतस्तदन्वयव्यति- २५ रेकानुविधानं नाम नित्यैकान्तवत् । स्वकाले सति समर्थे कारणे
"Aho Shrut Gyanam"