________________
प्रमाणनयतत्त्वालोकालङ्कारः
[परि. ५ सु. ८
दाऽभावेनान्यस्माद्भावासिद्धेविशिष्टा हि ते रूपा (?) स्तदैव भवन्ति नान्यदा । सामान्येन तु विवक्षितकार्यस्याप्यन्यतः सिद्धिः। यथाहि तत्कालभावभाविसजातीयवस्तूनि कालान्तरे कारणान्तरेभ्यः प्रभवन्ति । तथा विवक्षितकार्यमपि विवक्षितकारणकार्य न स्यात् । । एवमपि तदेव तजननस्वभावमितरदेव च तज्जन्यस्वभावमित्यभ्युपगमे न्यायबाधा । एवं भूतस्य वामात्रेण स्वभावान्तस्याप्यभिधातुं शक्यत्वात् । तथा ह्येवमपि वक्तुं शक्यत एव । मृत्पिण्ड एवं पटजननस्वभावः पट एव तज्जन्यस्वभावः । एवं तन्तय एव घटजनन
स्वभावा घट एव तज्जन्यस्वभाव इति हेतुफलभावापत्त्या न्यायबाधेति। १० मृत्पिडादिपटाद्योर्देशभेदेनेत्थं तत्स्वभावत्वकल्पना विरुध्यत इति चेत्
न । तत्तत्स्वभाववैचित्र्येण मृत्पिण्डादिघटायोः कालभेदेनेव देशभेदेनापि तयोर्युप्माकं विरोधासिद्धेः। मृत्पिण्डोऽपि हि युष्माकं भिन्नक्षणघटजननस्वभाव एव । एवं पदमधिकृत्य भिन्नदेशपटजननस्वभाव
त्वेऽप्यस्याविरोध एव । घट एव मृत्पिण्डरूपानुकारो दृश्यते नेतरत्रेति १५ घट एव तहेतुको न पट इति चेत् । अस्त्येतत् । किं त्वसौ न तत्स्व
रूपाद्यनुवेधमन्तरेण । ततः किमिति चेत् । अनिवारोऽन्वयः । किं च । किमुपादानकारणस्य स्वरूपम् । किं स्वनिवृत्तौ कार्यजनकत्वमाहोस्विदनेकस्मादुत्पद्यमानककार्थे स्वगतविशेषाधायक
त्वमुत समनन्तरप्रत्ययत्वं नियमवदन्वयव्यतिरेकानुविधानत्वं वा २० भवेत् । प्रथमपक्षे कथंचित्स्वनिवृत्तिः सर्वथा वा । कथंचित्
चेत् परमतप्रसंगः । सर्वथा चेत् । सहकारिणामप्युपादानत्वापत्तिः । द्वितीयपक्षेऽपि स्वगतानां कतिपयशेषाणामाधायकत्वं सकलविशेषाणां वा । तत्राद्यकल्पे रूपस्य रूपज्ञानं प्रत्युपादानभावः प्रसज्येत ।
स्वगतकतिपयविशेषाधायकत्वाविशेषात् । रूपोपादानत्वे च रूपज्ञानस्य २५ चार्वाकवद्वितीर्णः परलोकाय जलाञ्जलिः । द्वितीयविकल्पे तु कथं
निर्विकल्पात् सविकल्पोत्पत्तिरूपाकारात्समनन्तरप्रत्ययाद्रसाकार
"Aho Shrut Gyanam"