________________
परि. ५ सु. ८] स्याद्वादरत्नाकरसहितः
७६७ सर्वेषां कार्याणां तुल्यता स्वभाववैचिञ्यं वा अनिवारितम् । यदा तु प्रतीत्योत्पादमात्रेण कार्योत्पादस्तदा न कश्चिदोषः । तदिदं पिशाचभयात् पितृवनसमाश्रयणम् । नहि कथंचिद्वेतुस्वभावसंक्रान्तिमन्तरेण कार्योत्पाद एव युज्यत इति कार्यकारणानेकान्त उपपादयिष्यते । कवायं प्रतीत्योत्पाद इति मन्त्रस्फोटः क्रियतां तदनन्तर- ५ भावित्वमिति चेत् । नैतत् क्षणिकैकान्तवादिनोऽशेषतत्कालभाविभावसाधारणत्वेन हेतुफलभावनियमहेतुः । तथा हि- विवक्षितहेतुक्षणानन्तरं तत्कालभावि सर्वमेव त्रिभुवनोदरवर्ति क्षणजातमुत्पद्यते। ततस्तत्त्वरूपाद्यननुवेधतुल्यतायामयमेवास्य हेतुरिदमेव वास्य फलमिति कुतस्त्यो नियमः । तिरस्कृत्यान्तःकरणतिभिरमालोच्यतामेतत् । १० किमत्रालोच्यम् । हेतुफलस्वभावो नियमसिद्धः सर्वस्य सुस्थितत्वात् । तथा हि- तयोरेव हेतुफलयोः स स्वभावो येन स एव तस्यैव हेतुस्तदेव तम्यैव च फलमिति । एतदप्युपन्याससामोपदर्शनमात्रसारम् । एवमन्वयांपत्तेः । अन्यथा शब्दार्थायोगात् । तथा हि- स्वो भावः स्वभाव इत्यात्मीया सत्ता । किमुक्तं भवति । तस्यैव हेतोरिय. १५ मात्मीया सत्ता । यत्तदनन्तरं भवत्तदेव तत्कार्यमिति तस्यैव तथाभवनेऽन्वयसिद्धिः । अतत्स्वभावत्वेन हेतोर्विवक्षितहेत्वनन्तरं न विवक्षितकार्योत्पादः । उत्सादे वाऽतिप्रसंग इति कुतो हेतुफलभावनियमः। नन्वलमनेन वाक्छलेन तस्यायं स्वभावः स्वधर्मों यदपगच्छति तस्मिस्तदनन्तरं तदेव भवति । स्यादेतदेवम् । यदि तदाऽन्यत् न भवेत् । २० भवति च । किं तेन भवता न तद्विवक्षिताकारणादिति चेत् । विवक्षितकारणाद्विवक्षितमेव कार्य भवतीत्यत्र किं नियामकन् । तःस्वभाव एवेति चेत् । नासौ तत्स्वरूपाद्यननुवेधवैकल्थे तदनन्तरभावित्व. मात्रेण गम्यते । तस्याशेषतत्कालभाविभावसाधारणत्वादिति परित्यज्यतामसदभिनिवेशः । तेऽन्यदाऽन्यतोऽपि भवन्ति ! ततु त एवेति विशिष्ट- २५ तत्स्वभावत्वावगतेरदोष इति चेत् । नैतद्वाच्यम् । विवक्षितानामन्य
"Aho Shrut Gyanam"