________________
७६६
प्रमाणनयतत्त्वालोकालङ्कारः
[परि. ५ सू. ८
प्रवर्तमाना सरूपामुत्तरोत्तरां सामग्रीमारभते । तदप्यसत् । यतः समग्रेभ्यः सामग्री न मिन्ना । अपसिद्धान्तापत्तेः । किंतु समग्रैव । तत्र च पूर्वसमुदायेनोत्तरसमुदायारम्भे तदन्तरगतं समुदायिनमेकैकमे
कैक एवोत्पादयेत् सर्वे संभूय वा । नाद्यः पक्षः। एकस्मादेकोत्पत्तेः ५ प्रतिषिद्धत्वात् । अनेकस्मादनेकोत्पत्तिप्रतिज्ञापरिभ्रंशापत्तेश्च । नापि द्वितीयः । यत एकैकसमुदायिनिप्पत्तौ सर्वसमुदायिनां क्रमेण युगपद्वा व्यापारः स्यात् । क्रमपक्षे क्षणिकत्वक्षतिः । युगपत्पक्षे तु निकुरम्वरूपं कार्य निकुरम्बरूपात्कारणादुत्पन्नमिति कारणप्रविभागे
नियमाभावात् । इदं रूपम्, एष रस इत्येवंरूपादिकार्यप्रविभागो न १० स्यात् । सर्वं रूपं रसो वा स्यात् एकस्मान्निकुरम्बादुत्पन्नत्वात् । अथ निकुरम्बान्निकुरम्बस्योत्पत्तावपि न रूपादीनां स्वरूपसंकरप्रसंगः । पूर्वरूपादिक्षणरुपादानसहकारितया सामग्रीभेदेन रूपादिक्षणानामुत्पादनात् । यदि हि रूपक्षणो रूपवद्रसादिक्षणान्तरं प्रति
उपादानं स्यात्तदा स्याद्रसस्यापि रूपतेति । तदप्यनुपपन्नम् । १५ हेतुरूपाणां रूपादीनामेकस्वभावत्वेनोपादानसहकारिकल्पनाबीज
स्याभावात् । अन्यथा तेषां भिन्नस्वभावतापत्तिः। नहि येनैव स्वभावेनोपादानतैषां तेनैव सहकारिता । अभिवानमात्रभेदापतेः । इति सामग्रीभेदादूपरसादिफलभेदो दुःस्थित एव । सर्वेषां सर्वजनन
स्वभावत्वाददुस्थित इति चेत् । कथं तर्हि तावभ्यस्तावतामुत्पादे २० सर्वेषां रूपादिकार्याणां रूपादित्वेन जातिभेदो निरंशता च स्यादिति
शोभनमदुस्थितत्वम् । एकस्वभावानेकरूपजत्वे ह्यमीषां कार्याणां रूपादीनां सर्वेषां तुल्यतापत्तिः । येभ्य एवैकस्वभावेभ्योऽनेकेभ्य एकमुत्पनं तेभ्य एवान्यदपीति कृत्वा स्वभाववैचित्र्यं वा प्रामोति ।
एकैकस्य तावतावत्स्वभावजन्यत्वादित्यलचनीया न्यायमुद्रा । अथ २५ किमिदमात्मीयपक्षदापैः परपक्षोलनमुपसंक्रान्तन् ।हेतुस्वभावसंक्रान्ति
पझे ह्ययं दोषः । तत्र ोकस्वभावानेकरूपादीनामेव तथा भवनमिति
"Aho Shrut Gyanam"