________________
परि. ५ स. ८]
स्थाद्वादरत्नाकरसहितः
७६३
सतां यथा कथंचिद्धर्मास्तथापि चतुरस्रतापरिमण्डलतादयो विरोधेनैव ते धर्मिणं भिन्दन्ति । न पुनः संस्थानमृद्रूपतादयोऽविरोधिन इत्युक्तम् । तदसत् । संस्थानमृदूपतादीनामपि कथंचित् विरुद्धत्वात् । अन्यथैक्यापत्तेः । चतुरस्रतापरिमण्डलतादीनामपि कथंचिदविरुद्धत्वात् । अन्यथान्यतरस्य धर्मादित्वाभावप्रसंगात् । सर्वथा विरो- ५ धस्तु न वापि संगच्छते । ननु तर्हि श्रोत्रियोऽपि श्वपाकः श्वपाकोऽपि श्रोत्रियः प्राप्नोतीति चेत् । उच्यते । यद्यत्र कथंचिदित्युपक्षेपं कुरुषे तदा तत्प्राप्तावुत्सवं कारयामः । यदेव हि जीवद्रव्यमादिपर्यवसानशून्ये संसारे श्वपाकपर्यायपरिणतमभूद्भावि वा तदेवेदानी श्रोत्रियपर्यायपरिणतमिति द्रव्यरूपतया श्रोत्रियोऽपि वपाकः १० सोऽपि श्रोत्रियः किं न स्यात् । ननु यदैवासौ श्रोत्रियस्तदैव श्वपाकः किं न भवति । न भवति पर्यायरूपतया तयोविरोधसद्भावात् । क्रमभाविपर्यायाणामनेककालत्वात् । सर्वथा विरोधे तु तयोः श्रोत्रियद्रव्यक्षेत्रकालभावेष्वपि श्वपाकस्याभावापत्त्या सर्वथैवाभावप्रसंगः । अन्यथा सर्वथा विरोधानुपपत्तिः । ननु तथापि कथं संस्थानमृदूपतयोर्भेदाद्धटस्य भेदोऽभिधीयते । तयोः कथंचिदपि विरोधाभावात् । यद्ध्यवच्छेदेन हि यद्विधानं, यद्विधानेन वा यद्यवच्छेदः तत्तेन विरुद्धम् । न च मृन्मयत्वविधानेन पृथदरताव्यवच्छेदशङ्कापि संभवति । ततः संस्थानमुद्रूपतयोविरोधात् सिद्धेः कथं तदाधारधर्मिणो भेदः स्यात् । यतः कारणभेदोपनीततदात्मभूतधर्मनाना- २० त्वेन तस्य नानात्वादित्युच्यमानं समीचीनं स्यादिति । अत्रोच्यते । यदि तावदेतल्लक्षणलक्षितः परस्परपरिहारविरोधः संस्थानमृद्रूपतयो स्ति। मा भूत् । भेदस्तु तयोर्देवेनापि प्रतिषेद्भुमशक्यः । प्रतिषेधे तु तस्य तयोरन्यतरदेव स्यात् । न त्वेवम् । अविरुद्धौ भिन्नावपि धर्मों कथं धर्मिणं भिन्द्याताम् । उच्यते । तद्धर्मितादात्म्यात् । धर्मिणा हि २५ भिन्नानां धर्माणां तादात्म्यं तदा स्यात् यदि धर्मपि कथंचिद्
"Aho Shrut Gyanam"