________________
७६२
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५सू.८ धनेककारणकलापोत्पाद्यस्य कुम्भस्यैक्यं युक्तम् । कारणभेदोपनीततदात्मभूतधर्मनानात्वेन तस्यापि नानात्वात् । कुलालेन हि संस्थानविशेषो मृत्पिण्डेन मुद्रूपतासूत्रखण्डेन चक्राद्विच्छेदः कुम्भे कियते ।
अथ संततेधर्मा ये परस्पर विरोधिनोऽविरोधिनश्च । न तु धर्मा इत्येव ५ विरोधोऽविरोधो वा । नहि ब्राह्मण्यं वैयाकरणत्वेनाविरुद्धमिति चण्डालत्वेनाप्यविरुद्धमभिधातुं शक्यम् । न चाब्राह्मण्यव्याप्तचण्डालत्वेनेव वैयाकरणत्वेनापि विरुद्धम् । यथा चात्र ब्राह्मण्येतरत्वमेव विरुध्यते न वैयाकरणत्वम् । तथा चतुरस्रतादिसंस्थान विशेषेण परिमण्डलतादिसंस्थानविशेष एव विरुध्यतां न तु मृत्स्वभावतादीति कथं संस्थानमू१० द्रूपताद्यविरुद्धधर्माध्यासादनेककारणोत्पाद्यस्यापि कुम्भस्यानेकता स्यात्।
एतदपि परस्य किमपि कुट्टनीकलाप्रागल्भ्यम् । यदयं तावन्निखिलवस्तूनां निरंशतामुद्दाहुः फूत्करोति । सन्ति ते धर्मा इति च व्याचष्टे । अथ परमार्थतो धर्माणामभावाद्वस्तूनां निरंशतोच्यते कल्पनेोपरचि
तत्वेन तु तेषां भावाद्धर्माः सन्तीत्यभिधीयत इति चेत् । ननु कल्प६५ नाप्यनिमित्ता सनिमित्ता वा स्यात् । अनिमित्ता चेत्तर्हि कौतस्कुती
नैयत्येन तस्याः प्रवृत्तिः । तथा च ब्राह्मणोऽपि चण्डालश्चण्डालोऽपि ब्राह्मणोऽभिधीयेत । सनिमित्ता चेत् । किमस्या निमित्तम्, अन्यत्र्यात्रत्तिरिति चेत् । न तर्हि कल्पनामात्रारोपितत्वं धर्माणाम् अन्यव्यावृत्ते
स्तन्निबन्धनस्य स्वयमुक्तत्वात् । तस्याश्च वस्त्वंशरूपतया धर्मत्वात् । २० न किंचिदसौ तत्कुतोऽस्या वस्त्वंशरूपतया धर्मतेति चेत् । तथाभू
तापि सा कल्पना नैयत्यनिमित्तं भवतीति न प्रियापि शपथमन्तरेण प्रत्येति । अथास्य साधारणकारणोपजनितत्वं कल्पनानयत्यानिमित्त तेन ब्राह्मणजन्यो ब्राह्मण एवोच्यते न चण्डालः । ननु ब्राह्मणजन्यत्वं
कल्पनानयत्यनिमित्तं भवत् न किंचित्, किंचिद्वा । न किंचिच्चेत् तर्हि २५ न किंचिदनेन । किंचिचेत्तर्हि किं तद्धर्मादन्यद्भवतु । सन्ति तस्माद
स्तूनां केचित् कथंचिदात्मभूता धर्मा यतो न व्यवहारसंकरः । अथाऽऽ
"Aho Shrut Gyanam"