________________
परि. ५.८ ]
स्याद्वादरत्नाकरसहितः
स्वभावः । प्रथमगे तु तद्विकलः । न चैवं भेद एवं कारकरूपस्य तस्यैव कथंचित् पूर्वमपि भावात् इत्युक्तमेव । एवं च न किंचिद्विचार्यमाणं सामर्थ्यं प्रसंगहेतुत्वेन स्थेमानमास्तिघ्नुत इति कृतं तदुद्धोषणेन । एतेन यदप्युच्यते । " प्रसंग हेतौ व्याप्तिप्रसाधनाय जननमन्तरेण सामर्थ्यव्यवस्थायां सर्वस्य सर्वत्र शक्तव्यवहारप्रसंग: । नियत- ५ वयं प्रतिपन्नो व्यवहारः । न चास्य जननादन्यनिमित्तमुपपद्यते । ततो जननाभावेऽपि पक्षे नियमवत्तालक्षणव्यापकवियोगे नात्मसत्तया वियुज्यमानोऽयं जनन एव विश्राम्यतीति समर्थव्यवहारगोचरत्वमात्रानुबन्धि सिद्धं जननमिति व्याप्तिसिद्धिः" इति । तत्प्रतिक्षिप्तमवगन्तव्यम् । समर्थव्यवहारगोचरस्यापि बीजस्याङ्कुराकरणदर्श- १० नात् । नासौ मुख्यस्तत्रव्यवहारः। तस्य जनननिमित्तत्वात् । जननमन्तरेण सामर्थ्यव्यवस्थायां सर्वस्य सर्वत्र शक्तव्यवहारप्रसंगात् अनियतोऽसौ स्यात् इत्युक्तमेवेति चेत् । उक्तमेतत् । किं तु कीदृशं जननं मुख्य - मर्थव्यवहारहेतुरित्यप्युच्यताम् । एतदप्यक्षेपकारित्वरूपमुक्तमेवेति चेत् एतत्प्रतिविधानमप्युक्तमेव मा विस्मारि । नियमवत्त्वं च शक्तव्यवहारस्य । १५ तथा रूपपर्यायसाहित्ये सत्येव जननमसति साहित्येऽजननमेवेत्येवंस्वभावत्वेऽपि कारणस्योपपद्यते । ततश्च भवदभिमतजननाभावेऽपि शक्तव्यवहारस्य दर्शनान्न तेनास्य व्याप्तिसिद्धिः । तथा च प्रसंगविपर्ययप्रयोगयो रस तेजीमूते क्षणिकत्वासिद्धेर्न सपक्षः कश्चित् । ततश्च यदुक्तं ' सपक्षीकृते जलमुचि विलोकनात् ' इत्यादि तदसम - २० असमेव । किं च क्षणिकैकान्ते कार्यकारणभावस्यानुपपत्तेः कथंचित् क्षणिके तूपपत्तेर्विरुद्धमर्थक्रियाकारित्वरूपं सत्त्वम् । तथाहि -अत्र किमे. कस्मात् कारणादेकं कार्यमुत्पद्यते । अनेकस्मादेकम् । एकस्मादनेकम् अनेकस्मादनेकं या । नाद्यः पक्षः । एकस्मात्प्रदीपादिकारणादशादहनतैलशोषतिमिरस्तोमापनयनाद्यनेक कार्योदयदर्शनात् । नापि द्वितीयः । २५ अनेककारणोत्पाद्यस्यैकत्वायोगात् । न खलु कुलालमृत्पिण्डसूत्र खण्डा
" Aho Shrut Gyanam"
७६१.