________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ स्. ८ तत्र संशय इति चेत् । स पुनः किंरूपः किं सहकारिषु समवहितेप्वपि तेषु करिष्यति न वेति । किं वा व्यवहितेप्वपि तेषु करिष्यति न वेति । यद्वा यदा सहकारिसमवधानं तदैव करिप्यत्येव किंतु कदा
सहकारिसमवधानमिति संदेह इति । न तावत् पूर्वः । सामान्यतश्चे५ हीजस्य कारकत्वमवधतं तदैताशसंशयस्य कावकाशः । अवकाशे वा
कारकत्वावधारणमपि बीजस्य न स्यात्। नापि द्वितीयः । सहकारिणां सहकारित्वं चेदनवगतं तदा नेदृशसंशयम्यावसरः । तस्मिन् वा सहकारिणस्तत्वेनाबगता न भवेयुः । तृतीये तु तत्सन्तानान्त:पातिनो
बीजक्षणाः सकलाः समानशीलाः प्रामवन्ति । यत्र तत्र सहकारिसम२० वधाने सति करणनियमात् सर्वत्र च सहकारिसमवधानसंभवात् ।
समर्थ एव क्षणे सहकारिसमवधानमिति चेत् । तत्किमसमर्थे सहकारिसमवधानमेव न भवति । सत्यपि वा तत्समवधाने न तस्मात्कार्यजन्म । न प्रथमकल्पः । पाषाणखण्डादावनुरकरणासमर्थेऽपि पाथः
पृथिवीपवनातपसंबन्धदर्शनात् । नापि द्वितीयः । पाषाणग्वण्डादिव सह१५ कारिसाकल्यवतोऽपि बीजात् कदाचिदकुरानुत्पत्तिप्रसंगात् । एवमपि स्यात् । को दोष इति चेन्न तावदिदमुपलब्धम् । आशङ्कयत इति चेत् । न । तत्समवधाने सत्यकरणवत् विरहेऽपि करणमाशङ्कयेत । आशङ्कयतामिति चेत् । तर्हि बीजविरहेऽप्याशङ्कथेत ! तथा चातिनिष्कलंका भिक्षूणां प्रत्यक्षानुपलम्भपरिशुद्धिः । एवं चास्ति स कश्चिद्विशेषः कुसूलम्थबीजम्य, येनान्यपरिहारेण प्रेक्षस्तत्रैव प्रवर्तते । स च कोऽन्यो द्रव्यरूपकारकशक्तिव्यतिरेकेणेति न पर्यायवैकल्यप्रयुक्तकार्याभाववत्त्वमपि शक्तिः । अथ किमनेन विकल्पेन्द्रजालेन तस्य भावस्य यादृशश्चरमक्षणेऽसमर्थो क्षेपक्रियाधर्मा स्वभावतस्तादृश एव चेत्प्रथम
क्षणेऽपि तर्हि तदैव प्रसह्य कुर्वाणो गीर्वाणशापेनापि नापहस्तयितुं २५ शक्यत इति चेत् । स्यादेतदेवम् । यदि तादृश एव तदानीं स स्यात्
किं त्वन्यादृशोऽपि चरमक्षणे हि सहकारिसंनिधानाविभूतपर्यायपेशलोऽसौ
2014
"Aho Shrut Gyanam"