________________
परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः जनकत्वेन तेनाभ्युपगमात् । अथ द्रव्यम्यावान्तरजातिविशेषः शक्तिः । स किं द्रव्यपर्यायशक्तिभ्यामनातरिक्तोऽतिरिक्तो वा । प्रथमकल्पे जल्पितमेव दूषणम् । द्वितीयकल्पेऽपि न किंचित्तत्प्रसाधकं प्रमाणम् । प्रत्यक्षस्य तत्राप्रवर्तनात् । अनुमानम्य च लिङ्गाभावेनोत्थातुमशक्तः । एवं चावान्तरजातिविशेषम्वरूपसामर्थ्यस्त्र परेषामप्रसिद्धेः कुतः ५ असंगः प्रवर्तेत । प्रवृत्तावपि न करोति च विवादास्पदं बीजे तत्कार्यमतो न तथा रूपसामर्थसमन्वितमिति विपर्यये पर्यवसानासिद्धसाध्यता । न च तादृशं सामर्थ्य दृष्टान्तेऽप्यस्माकमभीष्टमिति तस्य साधनवैकल्यं च । अथ केयं यदृच्छा न च कश्चितम्य विशेष इष्यते करणमकरणं च प्रोच्यत इति । नैतद्वाच्यम् । १० पर्यायशक्तिसाहित्यस्वरूपस्य विशेषस्य स्वीकारात् । अवान्तरजातिविशेषस्य तु स्वभावभेदस्वरूपस्य तम्माननुभूयमानत्वात् । किं च । एतस्मिन्नुपेयमाने कल्पनागौरवमासज्यते । तथा हि-यावदायुर्बीजद्रव्य. मवान्तरजातिविशेषविकलमेवानुभूयमानं क्रमोत्पदिष्णु पर्यायपरंपरोपबू. हितं सरूपविरूपाः कार्यकोटीः करोतीत्येतावतैव सर्वस्मिन्नक्षुण्णे ( सर्वस्मिन् क्षुण्णे ) अनुपलक्ष्यमाणजातिकोटिकल्पना कापटिकविद्येव विस्तरमात्रोपयोगिनी, इन्द्रियाद्यतीन्द्रियभावकल्पनाविलोपप्रसंगश्चात्र । तथा हि यदि बीजादिजातिविशेष दृष्टमप्युपेक्ष्यानुपलक्ष्यमाणः कार्यहेतुर्जातिविशेषः स्वीक्रियते तदा तावतैव पर्याप्तत्वास्किं सहकारिकारणकल्पनया । अथ तेऽपि व्यापिप्रतस्तत्र दृश्यन्त इति कल्पनी- २० यास्तहीन्द्रियादिसहकारिषु किमुत्तरम् । न खलु तेषां ज्ञानाद्युत्पत्ती व्यापारदर्शनमस्ति । अतीन्द्रियत्वात् । एवं च कुतस्तत्कल्पना स्यात् । अथ : दर्शनाभावेऽपि दृष्टकारणान्तरसामग्र्थे ज्ञानादेरदर्शने पश्चादर्शने च किंचिदन्यदपेक्षणीयमस्तीति कार्यव्यतिरेकात्तत्कल्पनेति चेत् । मेवम् । अवान्तरजातिभेदाभावात्तदानीं तत्रोदयादित्ये. २५ तायत कार्यव्यतिरेकम्योपक्षीणत्वात् । विकल्पैरपि बीजस्य द्रव्यपर्या
"Aho Shrut Gyanam"