________________
७५६
प्रमाणनयतत्वालोकालङ्कारः
[ परि. ५ सू. ८
किं नात्र पश्यसि पुरः समुपस्थितमनवस्थादोस्थ्यं तेनापि तदन्तर
स्यावश्यकरणीयत्वात् ।
अथाभिन्ना भवेदेषा शक्ति: पर्यायलक्षणा |
जितं जितं तदास्माभिर्भावस्य क्षणिकत्वतः ॥ ५९० ॥ पर्यायशक्तिर्हि द्रव्यानतिरेकिणी कालान्तरे समुन्मिषन्ती भावदमकृत्यैव कथमासितुं शक्नोति । भिन्नाभिन्नपर्यायशक्तिपक्षोऽप्यंशे क्षणिकत्वमनपयन्न कुशली । तुरीयपक्षोऽपि विधिप्रतिषेधयोरन्यतरनिषेधे तदपर विधानस्यावश्यंभावादसंभवीति । तुण्डमण्डपविडम्बनामिमां मुञ्च बालजनताविभीषिकाम् ।
१० शाक्यशिष्यक सखे सतां पुरः किं करोषि बत धूर्तचेष्टितम् ||५९१॥ एतेषु हि पक्षेषु तृतीय एव पक्षः कक्षीक्रियते । तत्र च न कश्चित्तव दूषणोत्प्रेक्षणक्षणः ।
नन्वत्र पक्षे क्षणिकत्वलक्षणं निरूपितं पूर्वमुदप्रदूषणम् ।
१५
न वाच्यमेतन्निपात शर्करा क्षीरे यदेषा श्रितशीतले स्वयम् ||५९२ || प्रियमेव ह्यस्माकं वस्तुषु क्षणिकत्वं द्रव्यांशद्वारेणाक्षणिकेषु । तेषु पर्यायांशद्वारेण क्षणिकत्वोपगमात् । क्षणिकैकान्तस्यैव कुट्टयितुमुपक्रान्तत्वात् I क्षणिक पर्यायेभ्योऽञ्यतिरेकात्क्षणिकमेय द्रव्यं प्राप्नोतीति चेत् । न । व्यतिरेकस्यापि संभवात् । अत्राह - अर्धजरतीयमेतत् । क्षणिकाक्षणिकं यदेकमेव सखेऽर्धजरतीय मैतत्प्रिय२० मेव प्रमितितः सिद्धेः । यथा ह्येव कामिनी पलिताद्याधारतया जरती, समुन्नतघनस्तनतादिधर्माधारतया त्वजरतीत्यभिधीयते तथेकमेव वस्तु तत्तदपेक्षया क्षणिकमक्षणिकं चोच्यते किमनुपपन्नम् । एतेन पर्यायविशिष्टं द्रव्यं द्रव्यविशिष्टः पर्यायः उभयं स्वतन्त्रं शक्तिरि
3
त्या प्रत्युक्तम् । तुल्ययोगक्षेमत्वात् । अधिकचोभयं स्वतन्त्रमित्यत्र २५ दृष्टान्तस्य साधनविकलताकलङ्कः । न खल्वन्त्यसामग्र्यां द्रव्यपर्यायौ स्वतन्त्रं कार्यं जनयत इति जैनाभ्युपगमः । परस्परापेक्षयोस्तयोस्त
" Aho Shrut Gyanam"