________________
प्रमाणनयतत्त्व लोकालङ्कारः
[ परि. ५ सू. ८
पि यन्न त्वया चेत्यते । सकललोकयात्रानिर्वाहाय च यत्कल्पते । तथा हि त्वयापि तावच्चित्रज्ञानमुपगतमेव । तच्च नीलाद्याकारेभ्यो भिन्नमभिन्नं च । अन्यथा कथं तच्चित्रं स्यात् । तथैकान्तविविक्तबुद्धिमात्र - सद्भावे प्रतिसंधानाद्यभावेन जनव्यवहारश्च कुतः संपद्यत इति । तदेव ५ क्षणभरज्ञानार्थवादिनां न कथंचित्कार्यकारणभावः प्रतीयते । तद्प्रतीतौ चार्थक्रियासामर्थ्यं सत्त्वं वाद्यसिद्धत्वान्न साधनतां दधाति । यदपि सपक्षे वृत्त्या साधनस्य विरुद्धता विघुरतामभिधित्समानेन नीरदस्य सपक्षता सिद्धये क्षणिकत्वावधारणार्थं ' यद्यदा यज्जननसम - र्थम् ' इत्याद्यवादि । तत्र किमिदं सामर्थ्यं नाम करणं शक्तिव । न १० तावत्करणपक्षः पेशलः । साध्या विशिष्टतादुष्टत्वात् । तथा हि-करणस्य सामर्थ्यशब्दवाच्यतायां यज्जननसमर्थमिति यज्जननकारकमिति हेत्वर्थः । स एतत्करोतीति साध्यस्यापि भिन्नव्यावृत्तिकत्वेन सामर्थ्यकरणयोर्भेदाददोषोऽयमिति चेत् । असदेतत् व्यावृत्तिभेदस्यात्रायोगात् । तथा हि-अत्रायमनिमित्तः सनिमित्तो वा भवेत् । अनिमित्तश्चेत् । १५ शान्तम् । अतिप्रसंगपराहतत्वात् । सनिमितश्चेत् । किमत्र निमित्तं व्यावर्त्यभेदद्वारेण व्यावृत्यो विरोध इति चेत् । स किं मिथो व्याव
प्रतिक्षेपात् उत व्यावर्त्त्याक्षेपप्रतिक्षेपाभ्याम्, उपाधिभेदाद्वा स्यात् । न तावदाद्यात् । न हि यथा गोत्वेनाश्वत्वं तेन च गोत्वं प्रतिक्षिप्यते । तथात्र सामर्थ्येन करणस्य करणेन च सामथ्र्यस्य प्रतिक्षेपोऽस्ति । २० तथात्वे वा यदि सामर्थ्येन करणं प्रतिक्षिप्यते तदा हेतोरसिद्धतेति । नापि व्यावर्त्याक्षेपप्रतिक्षेपाभ्याम् । यस्मादेतौ यत्रैव द्वयोः परापरभावस्तत्रैवोपपद्येते वृक्षत्वशिंशपात्वयोरिव । वृक्षत्वेन हि परेण य एवाश्वत्थकपित्थादय आक्षिप्यन्ते त एवापरेण शिंशपात्वेन प्रतिक्षिप्यन्ते । न चैवं सामर्थ्यकरणयोः संभवति । नाप्युपाधिभेदात् कार्यत्वानित्य२५ स्ववत् । कार्यत्वस्य हि कारणमुपाधिः । अनित्यत्वस्य तु विनाशः । अत्र तु नेदृशः कोऽप्ययमभिधातुं शक्यः । शक्यतां वा तथापि
७५४
"Aho Shrut Gyanam"