________________
७५२
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ स्. ८ नाप्यतो भवत्येवेति 1 देशान्तरे कालान्तरे च ततस्तदनुपपत्तेरिति दर्शनात् । नाप्यतोऽपि भवतीति पक्षः । तत्रापि सामर्थ्यादन्यतोऽपि भवतीति स्वयमेव व्यभिचारोपगमात् । ततोऽध्यक्षेणान्वयव्यतिरेकासिद्धेर्न कार्यकारणभावस्यावसायः । अथानुपलम्भादेतदवसायः । हन्त ५ कोऽयमनुपलम्भः। प्रत्यक्षमनुमानं वा । न तावत्प्रत्यक्षम् । तस्य
क्षणान्तरासंसृष्टवस्तुविषयत्वात् । तेन च यथा नान्वयव्यतिरेकग्रहस्तथा प्रोक्तम् । नाप्यनुमानम् । अस्यान्वयव्यतिरेकग्रहणपूर्वकत्वात् । तद्यदि तेनैवान्वयव्यतिरेकग्रहणं तदेतरेतराश्रयदोषः स्यात् । अथानुपलम्भा
न्तरेण तर्हि तत्राप्यन्वयन्यतिरेकग्रहणमन्येनानुपलम्भान्तरेणेत्यनवस्था । १. एतेन प्रत्यक्षानुपलम्भसाधनः कार्यकारणभाव इत्यपि प्रत्युक्तम् । तन्ना
र्थयोः कार्यकारणभावावगमः संभवति । नाप्यर्थज्ञानयोः । समानन्यायत्वात् । किंच योऽयं प्रतिभात्यर्थः स ज्ञानस्यैवाकार इत्यभिमतम् । न च स्वात्मभूतेनार्थाकारेण तस्य जन्यजनकभावः संभवति । स्वात्मनि
क्रियाविरोधात् । ततोऽन्यश्वार्थः कदाचिन्न गृह्यते । ज्ञानसांश्लष्टासांश्ल१५, ष्टाकारद्वयाप्रतिभासनात् । न चाकारदर्शनेनार्थस्य कारणत्वव्यवस्थानं
भ्रान्तिज्ञानेऽप्यर्थाकारदर्शनात् । संवादिन एवाकारस्यार्थादुत्पत्तिरिति चेत् । कुतोऽयमविनोभावः सिद्धः । किंच संवादोऽप्यर्थक्रिया वा स्यादर्थप्राप्तिर्वा । उभयमप्येतदज्ञानरूपं ज्ञानरूपं वा । अज्ञानरूपं चेत् । तत्कथं सिद्धयेदिति महासनम् । अथ ज्ञानरूपम् । तत्रापि द्वयी गतिः । तदेव ज्ञानमपरं वा । यदि तदेव ज्ञानं पुनः पुनरुत्पद्यमान संवादः तद्भ्रान्तिज्ञानेऽपि स्यात् । तदपि हि पुनः पुनरुत्पद्यत एव । अथापरं स्पर्शादिज्ञानम् । तदप्यसत् । यतः केन विशेषेण चक्षुरादिविज्ञानस्य स्पर्शादिविज्ञानं संवाद उच्यते । न हि जैनवत्त्वया दर्शन
स्पर्शनाभ्यामकार्थस्य ग्रहणमिष्टम् । नापि पूर्वोत्तरकालविज्ञानानामेक२५ विषयत्वं तत्कथं ज्ञानान्तरोत्पत्तिः पूर्वज्ञानस्य संवादः । तन्नार्थज्ञान
१ ततोऽन्यत्वेऽर्थः' इति न. पुस्तके पाठः। २ अविनाभावः-व्यातिः
"Aho Shrut Gyanam"