________________
परि. ५ सू. ८] स्याद्वादरलाकरसहितः वा सिध्यति । तयोरितरेतरसंबन्धग्रहणात्तत्त्वव्यवस्थितेः । स्वरूपमेव कार्यत्वं कारणत्वं चेति चेत् । अस्त्वेनत् किंतु एकैकस्वरूपप्रतीतावस्येदं कार्य कारणं वेति प्रतिपत्तिः कुतो नालिकेरद्वीपबासिनोऽप्यनिदर्शनादेव तत्र धूमजनकत्वनिश्चयस्य च प्रसंगात् । परस्परसंबन्धित्वाप्रतिपत्तौ च कार्येण कारणानुमानमस्तमियात् । तदिदमायातम् 'मधु ५ पश्यसि दुर्बुद्धे प्रपातं नैव पश्यसि ' इति । तद्भावे भावस्यावसायाकार्यकारणभावव्यवस्था सुस्थेति चेत् । न । तद्भावे भावस्य क्षणमात्रवेदिना वेदनेन वेदयितुमशक्यत्वात् । क्रमेण द्वयोरपि प्रतिपत्तिरित्यपि त्रपापात्रम् । क्षणोभयभाविनः कस्यचिदेकस्य वेदनस्यासत्त्वात् । द्वयोस्तु क्रमोत्पन्नयोरपि परस्परस्वरूपाप्रतीतेने संबन्धबुद्धिः । विकल्प- १० प्रसादात्तगुद्धिरिति चेत् । अहो उत्तमस्य प्रसादः । स हि कतरत्प्रमाणम् । न प्रत्यक्षम् । अकल्पनापोढत्वात् । नानुमानम् । अलिङ्गजत्वात् । नास्य प्रत्यक्षपरिच्छेदानुकारित्वमस्ति । प्रत्यक्षेण कार्यकारणभावापरिच्छेदात् । किंच तद्भावमावित्वमात्रेण कार्यकारणत्वे रासभसद्भावे धूमोद्गमदर्शनात्तस्यापि १५ तत्कारणतापत्तिः । तदभावेऽपि तद्भावादनापत्तिरिति चेत् । नास्त्येतत् । यो हि धूमक्षणस्तद्भावे भवति स कथं तद्भाववदभावेऽपि स्यात् । उत्पन्नस्य पुनरुत्पादायोगात् । अथान्वयव्यतिरेकाभ्यां संतानस्य कार्यकारणभावोऽभिधीयते । तन्न साधु । क्षणातिरेकिणस्तस्यासंभवात् । भावे वा कार्यकारणभावस्तस्यैव स्यान्न क्षणानाम् । अक्षणिकश्चासौ, इत्यनेनैव २० सत्त्वं व्यभिचारि स्यात् । क्षणिक एवासाविति चेत्तर्हि किमनेनापि भिद्यमानयानपात्रानुयायिभिन्नयानान्तरतुल्येन । यो नान्वयव्यतिरेकग्रहणद्वारेण कार्यकारणभावग्रहणत्राणाय । किंच । कारणात्कार्य भवकथं गृह्यते । किमत एव भवति, आहोस्विद् अतो भवत्येव, किंवाऽतोऽपि भवतीति । एवं च न कार्यकारणभावग्रहो नियमाभावात् । २५
१ लौकिकन्यायः।
"Aho Shrut Gyanam"