________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ सू. ८ वस्तथावस्थानेन व्याप्यत इति दर्शितम् । तृतीयपादेन पक्षधर्मोपसंहारः । तदसिद्धिपरिहारश्चतुर्थेन । पूर्वापरकालयोरेकत्वे हि पदार्थस्य दृष्टाद्रूपाद्रूपान्तरविरहात्सकलकालकलाकलितस्य देशान्तरजुषोऽपि रूपस्यावश्यं प्रतिभास इति न देशकालान्तरावस्थाप्रतिपत्तये प्रमाणा५ न्तरपर्येषणावकाशः । अस्ति च पर्येषणा, इदानीमन्यदेशे वा तद्वस्तु
कथमस्ति किंस्विन्नोपनिपातिना रागरसेन सिक्तमिति तदुपनिपातसंभविन्यवसरे विमर्शदर्शनात् । न च दर्शनविषयीकृते तथा संभवः । न च दृष्टेऽप्यनवसायः शक्योऽभिधातुम् । तादृशि जिज्ञासिते रक्तादौ
रूपे क्षणिकतावदनभ्यासाभावात् । अन्यथा पश्चाद्दर्शनेऽपि नावसा१० योदयः स्यात् । तस्मात्तदनवसायस्तदप्रतिभासादेव । ननु यदि क्षण
भङ्गुरता भावानां प्रतिभाता प्रत्यक्षे तदा किमनेन सिद्धोपस्थायिनानुमानेनेति चेत् । उच्यते । शिशपानुमानेनेव व्यवहारः साधनीयः तथा च---
क्षणत्वमध्यक्षधिया यदेतज्ज्ञानं पुनर्न व्यवहार्यमेतत् । अतः समक्षग्रहसाधनेन प्रसाध्यते तद्यवहार एव ।। ५८७ ।।इति।। तदस्य मानद्वितयस्य विश्वतो दोषोपशान्त्या कुशलेषु सत्सु । आकालमेष क्षणभङ्गवादो विजृम्भतामस्खलितं त्रिलोक्याम् ॥ ५८८ ॥
अतीव ताथागत नूतनोऽयं कश्चित्प्रकारस्तव धूर्ततायाः।
दृष्टिं यदामील्य परिस्फुरन्तमपन्हुषे दोषसमूहमत्र ।।५८९॥ २० तथाहि यदवाचि ' सत्त्वमिहार्थक्रियासामर्थ्यम् ' इत्यादि ।
तत्राविवादसिद्धमेव भावेषु वादिनामर्थक्रियासामर्थ्य त्वामेकं बहिःकृत्य । क्षणमात्रलक्षकप्रत्यक्षवादिनो हि भवतः कार्यकारणभावप्रतिपत्तिरेव न संभवति । कुत एवार्थे क्रियासामर्थ्यप्रतीतिः स्यात् । तथा हि-कार्यकारणभावः कचिदर्थयोः, कचनार्थज्ञानयोः, क्वापि ज्ञानयोः प्रतिपत्तव्यः। त्वन्मते चार्थयोस्तावन्नासौ प्रतिपतुं पार्यते ! कारणकाले कार्यस्य कार्यकाले कारणस्य वा प्रतिभासाभावात् । न चैकस्यैव ग्रहणे कार्यत्वं कारणत्वं
"Aho Shrut Gyanam"