________________
परि. ५०८ ]
स्याद्वादरत्नाकरसहितः
↑
पश्चाद्वेति क्रमनिर्देशः । नैव क्रियां भवेत् । अन्यदा नैवेत्यवधारणान्न पूर्वं नापि पश्चात्क्रियेत्यक्रम निर्देशः । एतस्य च कार्यगतस्य प्रकारयस्य कारणानां क्षणभङ्ग एव सति संगतिरित्यन्तानिर्णीतावधारणया वृत्त्या नित्याद्यावृत्तिरित्यपास्य क्षणभङ्गसंगतिरिति प्राधान्येनोपन्यस्तं वृत्ते । तदक्षणिकादिवत्क्षणिकादपि मा व्यावृत्तिः शंकीति लक्षयि ५ तुम् । एतेनाक्षणिकस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोधाच्छाक्तलक्षणं सत्त्वमवहीयेत । अतः क्षणिकत्व एव विश्राम्यते न व्याप्यत इति क्रमयौगपद्यलक्षणव्यापकानुपलम्भाद्विपर्यये बाधकात्सत्त्वस्यार्थ - क्रियाशक्तिलक्षणस्य क्षणिकत्वेन व्याप्तिसिद्धिरित्युक्तं भवति । तथा च प्रयोगः– यत्क्रमयौगपद्यवत्यामर्थक्रियायां नोपयुज्यते तदन्नार्थक्रिया - १० शक्तम् । यथा हरिपदारविन्दम् । नोपयुज्यते चाक्षणिको भावः क्रमयैौगपद्यवत्यामर्थक्रियायामिति व्यापकानुपलम्भः ।
अपि च---
यन्निर्भाति यथा तथा तदखिलं गंगाम्बु गौरं यथा नो चेन्न प्रतिवस्तु शक्तिनियमः संकीर्णभावे भवेत् ॥ संस्काराः प्रतिभान्ति चेन्द्रियमतिष्वेकक्षणस्थायिनः स्यादेकक्षणवीक्षणादितरथा दृष्टित्रिकालीकला ॥ ५८६ ॥ लिङ्गरूपोपपत्तिव्यवकीर्णोऽयं स्वभावहेतुप्रयोगः । अत्र च सपक्षे भावान्न विरुद्धता दोषः । द्वितीयपादेन चानेकान्तपरिहारः । तथा हि-निर्मानं प्रत्यक्षे प्रतिभानमुक्तम् । ततो यावता विशेषेण २० पदार्थ : प्रत्यक्षे प्रतिभासमासादयति तन्नियमपरिहारण यदि स्वरूपस्थितिमाभजेत तदा सर्वसंकीर्णमस्य स्वरूपमिति सर्वत्र सर्वोपयोगादिप्रसंग ः | अतः स्वरूपनियमे प्रमाणापेक्षायां प्रवृत्तिनिवृत्तिकामस्य यद्यथा प्रत्यक्षे प्रतिभातं तत्तथैव सन्नान्यथेति । तदनेन तथावस्थानव्याप्तः प्रत्यक्षप्रतिभासोऽर्थस्यान्यथावस्थाने विपक्षे व्यापकाभावादसंभ- २५
१ यत्सत्तत् क्षणिकमित्यादिश्लोके ।
४८
७४९
"Aho Shrut Gyanam"
१५