________________
प्रमाणनयतत्त्वालोकालङ्कारः पिरि. ५ स. ८ कार्याणि हि विलम्बन्ते कारणासंनिधानतः ।
समर्थहेतुसद्भावे क्षेपस्तेषां तु किंकृतः ॥५८५|| एतेनाकरणपक्षोऽपि प्रतिक्षिप्तः । यदा विलम्बो ह्यसह्यस्तदादूरोत्सारितमकरणम् । असामर्थे वा समीहितसमयेऽप्यकरणप्रसङ्गः । सदेकत्वभावत्वात् । स्वभावभ्रंशे च प्रतिक्षणं क्षयः सिद्धो जलधरस्य ।। प्रयोगः-यद्यदा यजननसमर्थ तत्तदा तत्करोत्येव । यथान्या कारणसामग्री स्वकार्यम् । शक्तश्चायमुभयदशायामुभयं कार्यमर्जितुमिति स्वभावहेतुपसंगः । विपर्ययप्रयोगश्च-यद्यन्न करोति
न तत्तत्र समर्थम् । यथा शाल्यङ्कुरमकुर्व कोद्रवः । न करोति १. चायं प्रथमक्षणसाध्याः किया द्वितीयादिक्षणसाध्या वा प्रथमक्षण इति
व्यापकानुपलब्धिः । एवं च जलधरस्य तत्तक्रियासु समर्थासमर्थस्वभावतया प्रतिक्षणमन्यत्वेन सपक्षत्वे सिद्ध तत्र वर्तमानस्य सत्त्वहेतोः कुतो विरुद्धता । नाप्यनैकान्तिकशङ्का । सर्वोपसंहारवत्या व्याप्तेः प्रसाधनत्वात् । ननु विपर्ययबाधकप्रमाणवशात् व्यातिसिद्धिः । तस्य च नोपन्यासवार्तापि। तत्कथं व्यातिः प्रसाधितेत्युच्यते । तदचतुरस्रम् । तथा युक्तमेतत् । कर्तुः सा न क्रियान्यदापि किंतु परक्रिया, अक्रियैव वा । अत्र च प्रकारद्वये क्षणभङ्गसंगतेरवश्यंभावोऽतः साध्येन व्यातैव सार्थक्रियासक्तिरिति । नन्वेवमन्वयमात्रमस्तु विप
क्षात्पुनरेकान्तेन व्यतिरेकः कथं लभ्य इति चेत् । प्रागुक्तं २० 'यद्यदा' इत्यादिकानुमानादन्वयव्याप्तिसिद्धेरेव । विपर्ययबाधकशब्देन
पुनरत्रान्वयव्यतिरेकव्याप्तिप्रसाधकप्रमाणयोरुभयोरपि संग्रहः । अन्वयरूपायां हि व्याप्ती साध्यविपर्ययस्य बाधकं सौधने सति । व्यतिरेकरूपायां तु साध्यविपर्यये बाधक साधनस्येति । अथापि व्यतिरेकरूपा
यामेव व्याप्तौ कौतुकमस्ति तदा साप्युक्तव । तथा हि-नाप्येकैव विधा २५ नान्यदापि किंतु परं कृत्वा भवेदक्षणिकाभिमतभावस्थान्यदा पूर्व
१. साधनसत्त्वम् ' इाते न. पुस्तक पाठः । २ — साध्यं विपर्थयबाधकम् ' इति न. पुस्तके पाठः।
"Aho Shrut Gyanam"