________________
७४२
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ सू. ८ द्विष्ठोऽसावभिधीयते । तदा रूपादेरपि द्विष्ठत्वनियमापत्तिः । तत्सामान्यस्य द्विष्ठत्वात् । रूपादेर्गुणविशेषात्तत्सामान्यस्य पदार्थान्तरत्वान्न तदनेकस्थत्वमिति चेत् । तर्हि कर्मकर्तृस्थाद्विरोधविशेषात्पदार्थान्तरस्य विरोधसामान्यस्य द्विष्ठत्वे कुतस्तविष्ठत्वं येन द्वयोर्विशेषणं विरोधः । एतेन · गुणयोः कर्मणोर्द्रव्यगुणयोर्गुणकर्मणोव्यकर्मयोवा विरोधो विशेषणम् ' इत्यपास्तम् । विरोधस्य ह्यभावरूपत्वे कथं सामान्यविशेषभावो येनानेकविरोधि विशेषणभूतविरोधविशेषव्यापि विरोधसामान्यमुपेयते । यदि पुनः षट्पदार्थव्यति
रिक्तत्वात्पदार्थशेषो विरोधोऽनेकस्थः । स च विरोध्यविरोधको १० भावप्रत्ययविशेषसिद्धः समाश्रीयते । तदाप्यम्यासंबद्धस्य द्रव्यादौ विशेषत्वं स्यात्संबद्धस्य वा । न तावदसंबद्धस्य । अतिप्रसंगात् । दण्डादौ तथा प्रतीत्यभावाच्च । अथ संबद्धम्य किं संयोगेन समचायेन विशेषणभावेन वा । न तावत्संयोगेन । अस्याद्रव्यत्वेन संयो
गानाश्रयत्वात् । नापि समवायेन । विरोधस्य द्रव्यगुणकर्मसामान्यवि१५ शेषव्यतिरिक्तत्वेनासमवायित्वात् । नापि विशेषणभावेन । संबन्धान्तरे
णासंबद्धे वस्तुनि तस्यासंभवात् ! अन्यथा दण्डपुरुषादौ संयोगादिसंबन्धाभावेऽपि स म्यात् । इत्यलं संयोगादिसंबन्धकल्पनाप्रयासेन । तदित्थं विरोधस्य परामृश्यमानम्याघटमानत्वान्नाथ भेदाभेदयोः परिकल्पयितुं युक्तः ॥ २ ॥ नापि वैयधिकरण्यम् । एकाधारतया निर्वाधबोधे भेदाभेदयोः प्रतिभासमानत्वात् ॥ ३ ॥ नाप्युभयदोषानुषंगः । तस्करपारदारिकाभ्यामतस्करपारदारिकवद्भेदात्मकवस्तुनः केवलभेदाभेदाभ्यां जात्यन्तरत्वात् । न खलु भेदाभेदयोरन्योन्यनिरपेक्षयोरेकत्वं जिनपतिमतानुसारिभिरिष्टं येनायं दोषः स्यात् । तत्सापेक्षयोरेव तद्
भ्युपगमात्तथाप्रतीतेश्च ॥ ४ ॥ नापि संकरव्यतिकरौ । स्वरूपेणैवार्थे २५ तयोः प्रतीयमानत्वात् ॥ ५॥ ६ ॥ नाप्यनवस्था । धर्माणामपरधर्मासंभवात् । ‘धर्मिणोऽनेकरूपत्वं न धर्माणां कथंचन '
२०
"Aho Shrut Gyanam"