________________
परि. ५ सू. ८ ] स्थाद्वादरत्नाकरसहितः
७१३ इत्यभिधानात् ॥ ७ ॥ एवं संशयादिदोषसप्तकविकुट्टनाद्यदुक्तं तत्त्वस्याप्रतिपत्तिरेवानेकान्तवादिनामिति, तत्प्रत्युक्तम् । तत्सामान्यविशेषयोर्नियमतो भेदः समास्थीयते
यैस्ते न्यायपराङ्मुखाः कुमतयम्तीर्थान्तरीया हताः ॥ स्याद्वादोन्नततोरणो जिनपतेरुतुङ्गसच्छासन
प्रासादः प्रचुरार्थसार्थरुचिरस्तस्माच्चिरं तिष्ठतात् ।। ५८० ॥ सामान्यविशेषाख्योऽनेकान्तः सिद्धिसौधमानीतः ।।
अधुना तु साध्यतेऽसावादिध्वनिसंचितस्तत्र ।। ५८१ ।। तथा हि- समस्तं वस्तु स्वपररूपादिना सदसदात्मकं प्रतिनियत
रूपव्यवस्थानुपपत्तेः । नन्वत्र साध्यपदयोर्विरोधः। १० सदसदनकान्तवादस्य संसाधनम्।
- कथमेकमेव कुम्भादिवस्तु सञ्चासच भवति ।
सत्त्व ह्यत्सत्त्वपरिहारेण व्यवस्थितम् । असत्त्वमपि सत्त्वपरिहारेण । अन्यथा तयोरविशेषः स्यात् । ततश्च तद्यदि सत्, कथमसत् । अथासत्, कथं सदित्यप्रसिद्धमेव सदसदात्मकत्वम् । तथा चाप्रसिद्धविशेषणत्वं पक्षस्य दोषः । प्रतिनियतरूपव्यवस्थाऽन्यथा- १५. नुपपत्त्याख्यो हेतुरप्यसिद्धः । इतरेतराभाववशादेव प्रतिनियतरूपव्यवस्थाया उपपद्यमानत्वात् ।
भावाभावात्मकं वस्तु तदित्थं नोपपद्यते ।
स्वीकार्यों सर्वथा भिन्नौ भावाभावौ बुधैस्ततः ।। ५८२ ।। तदिदमखिलमलीकम् । यतो यदि येनैव प्रकारेण सत्त्वं तेनैवासत्त्वं २० येन चासत्त्वं तेनैव च सत्त्वमभ्युपेयेत । तदा स्पाद्विरोधः । यदा तु म्वरूपादिना सत्त्वं पररूपादिना त्वसत्त्वमिप्यते तदा कास्य गन्धोऽपि ।न खलु वस्तुनः सत्त्वमेव । स्वरूपादिनेव पररूपादिनापि सत्त्वप्रसंगात् । सर्वस्यासर्वात्मकत्वानुषक्त्या सत्वाद्वैतापतेः । तच्च प्रागेव कृतोत्तरम् । नाप्यसत्त्वमेव । पररूपादिनेव स्वरूपादिनाप्यसत्त्वप्रसंगात् । अखि- २५ लस्य खपुष्पप्रख्यत्वापत्या सकलशून्यताप्राः । सापि च प्राक्प्रति
"Aho Shrut Gyanam"