________________
परि. ५ सू. ८ स्याद्वादरत्नाकरसहितः सामान्यविशेषयोः कथंचिदभिन्नाकारयोः सतोस्तथैव प्रतिभासात् । अत एव च पक्षस्य प्रत्यक्षबाधा । दूरपादपादिना व्याभिचारस्य हेतोः । न हि दूरासन्नदेशवर्तिप्रतियतणामस्पष्टेतरतया प्रतिभासभेदेऽपि पादपादेत्यन्तभेदः संभवति । ननु चात्र प्रातभासभेदाद्विषयभेदोऽस्त्येव । तथा हि-प्रथमं दूरदेशवर्तिनो विज्ञानं पादपत्वसामान्यविषयम् । उत्तरकालं ५ तु तद्देशोपसर्पणे शिंशपादिविशेषविषयमिति चेत् । तदयविचारितमनोहरम् । एवं हि विषयभेदाभ्युपगमे यमहमद्राक्षं दूरस्थितः पादपमेतर्हि तमेव पश्यामीत्येकत्वाध्यव लायो न स्यात् । तथा यद्यथा निर्बाधाध्यक्षेऽवभासते तत्तथैवाऽभ्युपगन्तव्यम् । यथा नीलं नीलरूपतया निबांधाध्यक्षेऽवभासतेऽवभासेते च कथंचित्तादात्म्येन सामान्यविशेषावित्य- १० नुमानबाधितः पक्षः । न च तथा तवभासिनोऽध्यक्षस्य निर्बाधत्वमसिद्धम् । तद्बाधकस्य कस्यचिदप्यसंभवात् । न खलु प्रत्यक्षं तद्वाधकम् । अत्यन्तत दस्याऽत्राप्रतिभासमानत्वात् । अनुमानमप्येतदेवान्य. द्वा तहाधकं स्यात् । न तावदेतदेव । अत्याध्यक्षबाधितविषयतयोत्थानस्यैवाऽसंभवात् । प्रान्तत्वान्न प्रस्तुतानुमानविषग्रस्य प्रत्यक्षेण बाधेति १५ चेत् । कुतः प्रत्यक्षस्य भ्रान्तत्वम् । प्रस्तुतानुमानेन बाधनाचेत्तर्हि चक्रकापत्तिः । तथा हि-अबाधितविषयतया प्रस्तुतानुमानस्योत्थाने प्रत्यक्षस्यानेन बाधा । तस्यां च सत्यां तस्य भ्रान्तत्वम् । तस्मिन्सति अबाधितविषयतया प्रस्तुतानुमानस्योत्थानमिति । कथं चैवमनुष्णोऽग्निः सत्त्वा जलवत्, इत्यस्याप्यबाधितविषयतया प्रवृत्तिर्न स्यात् । २० साध्यसाधनयोः साहचर्यम्य सपक्षे प्रत्यक्षतः प्रतीतेस्त्राप्यविशेषात् । पक्षस्य प्रत्यक्षबाधनादम्याऽगमकत्वमितरत्राप्यविशिष्टम् । तन्नतेनैवाऽनुमानेन सामान्यविशेषयोः कथांचेतादात्म्यपाहिप्रत्यझस्य बाधनम् । अनुमानान्तरेण तद्बाधनेऽस्य वैयर्थ्यम् | साध्यस्यापि तत एव प्रसिद्धेः ! दृष्टान्तोऽपि साध्यविकलो घटयटयोरपि दृष्टान्तीकृतयोरत्यन्त- २५ भेदासंभवात् । तदसंभवश्व सत्त्वादिनाऽन्योन्यं तयोरभेदात्सुप्रसिद्धः ।
"Aho Shrut Gyanam"