________________
प्रमाणनयतत्त्वालोकालङ्कारः
तथा, एकान्तेनैकात्मत्वे यो दोषोऽनेकस्वभावत्वाभावलक्षणोऽ. नेकात्मकत्वे चैकस्वभावत्वाभावलक्षणः सोऽप्यत्रानुषज्ज्यत इत्युभयदोः || ४ || तथा येन स्वभावेनार्थस्यैकस्वभावता तेनानेकस्वभावत्वस्यापि प्रसंगः । थेन चानेकस्वभावता तेनैकस्वभावत्वस्याप्यनुषङ्ग इति संकरः । 'सर्वेषां युगपत्प्राप्तिः संकरः ' इत्यभिधानात् ॥ ५ ॥ तथा येन स्वभावेनानेकत्वं तेनैकत्वं प्राप्नोति येन चैकत्वं तेनानेकत्वमिति व्यतिकरः । ' परस्परविषयगमनं व्यतिकरः ' इति वचनात् || ६ || तथा यमात्मानं पुरोधाय भेदो यं च समाश्रित्याभेदस्तावात्मानौ भिन्नौ चाभिन्नौ च । तत्रापि तथा परिकल्पनादनवस्था || ७ || तदुक्तम्१० 'संशयविरोधवैयधिकरण्यसंकरमथोभयं दोषः । अनवस्थाव्यतिकरमपि जैनमते सप्त दोषाः स्युः ॥' इति । एवं तत्त्वस्याप्रतिपत्तिरेवानेकान्तवादिनाम् |
७३८
५
१५
[ परि. ५ सु.
अनेकदोषोपनिपातदुःस्थं तस्मादनेकान्तमतं विहाय |
एकान्ततो भिन्नतयाऽभ्युपेयौ सामान्यभेदाविह नीतिमद्भिः॥५७८||
इत्थं योगैः स्वीयमार्गानुरागअस्तस्वान्तैर्जल्पितं युक्तिजालम् | सर्वं चैतन्मोहनिद्राप्रलाप
प्रायं प्रेक्षलक्षणीयं तथा हि ॥ ५७९ ॥ यावत् ' सामान्यविशेषौ अत्यन्तभिन्नौ ' इत्याद्यनुमानमुक्तम् । २० तत्र भिन्नप्रतिभासत्वादिति हेतोः कोऽर्थः । किं मित्रप्रमाणग्राह्यत्वात्, भिन्नाकारावभासित्वाद्वा । आद्यपक्षे आत्मादिनाऽनेकान्तः । प्रत्यक्षादिभिन्नप्रमाणग्राह्येऽप्येकस्मिन्मेदासंभवात् । द्वितीयपक्षेऽपि कथंचिद्विन्नाकारावभासित्वं साधनत्वेनाध्यवसितं सर्वथा वा । यदि कथंचितदा कथंचिदेव, अतः सामान्यविशेषयोर्भेदः सिद्धयेत् । तेनैवाऽस्यावि२५ नाभावसंभवात् । न पुनः सर्वथा तद्विपर्ययात् । तथा च हेतोर्विरुद्धत्वं साध्यविपर्ययसाधनात् । सर्वथा भिन्नाकारावभासित्वं त्वसिद्धम् ।
" Aho Shrut Gyanam"
८