________________
७३७
परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः प्रस्तुतसाधनम्य । विरुद्धानकान्तिकदोषयोस्तु शङ्कव नास्तीति निरवद्यमिदं साधनमः धर्मिणि सामान्यविशेषात्मत्वं साध्यमुपढौकयत्येव ।
तत्सामान्यविशेषाख्यानेकान्ताक्रान्तमूर्तिकम् । वस्तु प्रमेयमायातं प्रमाणस्योपपत्तितः ।। ५७६ ॥ अत्र गोगाः प्रत्यवतिष्ठन्तेसामान्यविशेषेतिपदार्थ - ननु नाद्यापि पूर्वोक्तं प्रमेयमुपपद्यते । यवादिना नयायिकानां सामान्यभेदयोर्यम्मात्पार्थक्येनैव संस्थितिः मतस्य उपादनपूर्वक सविस्तरं खण्डनम् ।
॥ ५७७ ॥ तथाहि- सामान्यविशेषौ अत्यन्तभिन्नौ भिन्नप्रतिभासत्वाद्यावित्थं तावित्थम् । यथा घटपटौ । तथा चेमौ तस्मात्तथा । घटपटयोहि १० भिन्नप्रतिभासत्वमत्यन्तभेदे सत्येव दृष्टं तत्सामान्यविशेषयोदृश्यमानं कथं नात्यन्तभेदमुपढौकयेत् । अन्यथा अन्यत्राऽप्यस्य तदनुपढौकनप्रसंगः । इतोऽप्यनुमानात्तयोरत्यन्तभेदसिद्धिः । सामान्यविशेषावत्यन्तभिन्नौ विरुद्धधर्मान्वितत्वात् । यावे तावेबम् । यथा पयःपायको । तथा चैतौ तस्मात्तथा । न चानयोविरुद्धधर्मान्वितत्वमसिद्धम् । १५ एकत्वनित्यत्वनिरचयत्वनिष्क्रियत्वादिधर्मान्वितं हि सामान्यम् । एतद्विपरीतधर्मान्वितस्तु विशेषः । तद्यदि वस्तुनः सानान्यस्वभावता स्वीक्रियते कथं विशेषरूपता । सा चेत्कथं सामान्यस्वभावता विरोधात् । किंच सामान्यविशेषयोस्तादात्म्ये पटस्य भावः पटत्वमिति भेदनिष्ठा षष्ठी तद्धितोत्पत्तिश्च न प्राप्नोति । तस्मात्तयोरत्यन्तभेद एव २० युक्तो न पुनर्भेदानेकान्तः । संशयादिदोषसप्तकोपनिपातप्रसक्तेः । ___ तथा हि-केन स्वरूपेण तयोर्भेदः केन चाभेद इति संशयः ॥१॥ तथा यत्राऽभेदस्तत्र भेदम्य विरोधो यत्र च भेदस्तत्राऽभेदस्य शीतोष्णस्पर्शवदिति विरोधः ॥ २ ॥ तथा, अभेदम्यैकत्वस्वभावस्याऽन्यदधिकरणम् । भेदस्यानेकत्वस्वभावस्यान्यदिति वैयधिकरण्यम् ॥ ३ ॥ २५
"Aho Shrut Gyanam"