________________
७३६
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ५ सु. ८
धर्म इति पूर्वसूत्रादनुवर्तनीयम् । क्रमभावित्वमिह लक्षणम् । परिशिष्टं तु निदर्शनम् । तत्रेत्यात्मनि । आदिशब्देन हर्षविषादादीनामुपादानम् ।
इदमत्र तात्पर्यम् । ये सहभाविनः सुखज्ञानवीर्यपरिस्पन्दयौवनादयस्त गुणाः । ये तु क्रमवृत्तयः सुखदुःखहर्षविषादादयस्ते पर्यायाः । नन्वेवं त एव गुणास्त एवं च पर्याया इति कथं तेषां भेद इति चत् । मैवम् । कालभेदविभेदापेक्षया तद्भेदस्याऽनुभूयमानत्वात् | अभिन्नकालवर्तिनो हि सुखज्ञानादयो गुणा: । विभिन्न कालवर्तिनस्तु पर्याया इति । १० न चैवमेषां सर्वथा भेद इत्यपि मन्तव्यम् । कथंचिदभेदस्याऽप्यविरोधात् । न खल्वेषां स्तम्भकुम्भवद्भेदो नापि स्वरूपवदभेदः । किंतु धर्म्यपेक्षयाऽनेदः । स्वरूपापेक्षया तु भेद इति । इत्थं प्रमाणविषये सामान्यविशेषात्मकेऽर्थे प्रत्यक्षप्रतिपन्नस्वरूपेऽपि ये विप्रतिपद्यन्ते तान्प्रतीदमनुमानमुच्यते ! अर्थ: सामान्यविशेषात्मा, अबाध्यमानानुवृत्त१५ प्रत्ययगोचरत्वान्यथानुपपत्तेः । न चाऽत्र साधनमसिद्धम् । घटेषु घटो । घट इत्यनुवृत्तप्रत्ययस्य ताम्रो मार्तिकः सौवर्गः । पटादिर्वा न भवतीति व्यावृत्तप्रत्ययस्य चावाभ्यमानस्य प्रतिप्राणि प्रतीतत्वात् । भ्रान्तोऽयं प्रत्ययः सविकल्पकत्वादिति चेत् । अभ्रान्तस्तर्हि कीदृश इति वक्तुमर्हसि । निर्विकल्पक इति चेत् । मैवम् । तस्यापि निर्विकल्प२० कत्वेन अन्तत्वापतेः । अर्थसामर्थ्य जन्यत्वापस्य भ्रान्तत्वानापतिरिति चेत् । न । अस्थोत्तरस्य सविकल्पकेऽपि तुल्यत्वात् । कचित्तस्य व्यभिचारोपलम्भादतुल्यत्वमिति चेत् । न तस्य निर्विकल्पेऽपि भावात् । व्यभिचारी निर्विकल्पकः प्रत्ययो न नः प्रमाणं तदाभासत्वादिति चेत् । सविकल्प के तु तुल्योऽयं परिहारः । निर्विकल्पकविकुट्टनेन सविकल्प२५ स्यैव समर्थितं च प्रामाण्यम् । इत्यलमिहातिप्रपञ्चेन । तन्नासिद्धिः
I
" Aho Shrut Gyanam"
सामान्यविशेषाने कान्तवा• दस्योपपादनम् ।